SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥४२७॥ 999990000000000000009 कृता, सांप्रतमावयोर्युक्तमनशनं कर्तुं, इति विचार्य ताभ्यामनशनं विहितं, सनत्कुमारचक्रिणा नमुचिमंत्रिणो वृत्तांतो ज्ञातः, दूतैः सह रज्जुबद्धः कृतः, प्रापितश्च तदुद्याने तयोः समीपे, ताभ्यां स मोचितः, सनत्कुमारोऽपि तयोवंदनार्थं सांतःपुरपरिवारस्तत्रायातः, सर्वलोकसहितश्चक्री तयोः पादयुग्मे प्रणतः, चक्रिणः स्त्रीरत्नं सुनंदापि औत्सुक्यात्तयोः पादे प्रणता, तस्या अलकस्पर्शानुभवेन संभूतयतिना निदानं कर्तुमारब्धं, तदानीं चित्रमुनिनैवं चिंतितमहो दुर्जयत्वं मोहस्य! अहो दुर्दीततेंद्रियाणां, येन समाचरितविकृष्टतपोनिकरोऽपि विदितजिनवचनोऽप्ययं युवतीवालाग्रस्पर्शेणेत्थमध्यवस्यति. ततः प्रतिबोधितुकामेन चित्रमुनिना तस्य संभूतमुनेरेवं भणितं, भ्रातरेतदध्यवसायान्निवृत्ति कुरु? एते हि भोगा असाराः, परिणामदारुणाः, संसारपरिभ्रमणहेतवः संति. एतेषु मा निदानं कुरु? निदानात्तव घोरानुष्टानं नैव तादृक् फलदं भविष्यति. एवं चित्रमुनिना प्रतिबोधितोऽपि संभूतो न निदानं तत्याज. यद्यस्य तपसः फलमस्ति, तदाहं भवांतरे चक्रवर्ती भूयासमिति निकाचितं निदानं चकार. ततो मृत्वा सौधर्मदेवलोके तो द्वावपि देवो जातो. ततश्च्युतश्चित्रजीवः पुरमतालनगरे 1000005950 ॥४२७॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy