________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥४१५ ॥
०००
www.kobatirth.org
उक्तं - दृष्टिपूर्वं चरेन्मार्ग । वस्त्रपूतं पिबेज्जलं ॥ ज्ञानपूतं सृजेद्वमं । सत्यपूतं वदेद्वचः ॥ १ ॥ ३९ ॥ अथ प्रत्युत्पन्नशंकास्ते ब्राह्मणा धर्मं पप्रच्छुः
॥ मूलम् ॥ कहं चरे भिक्खु वयं यजामो । पावाई कम्माई पणुलयामो ॥ अक्खाहिणो संजय जक्खपूइया । कहं सुजुहं कुसला वयंति ॥ ४० ॥ व्याख्या - हे भिक्षो ! वयं कथं चरेमहि ? कस्यां क्रियायां प्रवर्तेमहि ? हे भिक्षो! पुनर्वयं कथं यजामो यागं कुर्मः ? पुनर्वयं पापानि पापहेतुनि कर्माणि कथं प्रलयामः प्रणुदामः प्रकर्षेण स्फेटयामः ? हे यक्षपूजित ! हे संयत! जितेंद्रिय ! कुशला | धर्ममर्मज्ञा विद्वांसः कथं केन प्रकारेण सुजुद्वं इति सुष्टु शोभनं इष्टं स्विष्टं शोभनयजनं वदंति ? तत् शोभनयज्ञं नोऽस्मान् आख्याहि ? कथय ? इत्यर्थः ॥ ४० ॥ अथ मुनिराह -
॥ मूलम् ॥-छज्जीवका असमारभंता । मोसं अदत्तं च असेवमाणा ॥ परिग्गहं इत्थिओ माणमायं । एयं परिन्नाय चरंति दंता ॥ ४१ ॥ व्याख्या- पूर्व ब्राह्मणैरयं प्रश्नो विहितः, कथं वयं प्रवतेंमहि? तस्योत्तरं - भो ब्राह्मणाः ! दांता जितेंद्रिया एतत्पूर्वोक्तं पापहेतुकं परिज्ञाय चरंति प्रवर्तते.
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
18000666666666
50000
सटीकं
॥ ४१५॥