SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥३५॥ £2006 www.kobatirth.org |रकः साध्वाचारो दर्शितः ॥ ४२ ॥ ॥ मूलम् ॥-मणोगयं वक्कगयं । जाणित्तायरियस्स उ ॥ तं परिगिज्झ वायाए । कम्मुणा उववायए ॥ ४३ ॥ व्याख्या - सुशिष्यराचार्यस्य मनोगतं मनसि स्थितं कार्यं पुनर्वाक्यगतं कार्यं पूर्वं ज्ञात्वा पश्चात्तत्कार्यं वाचा परिगृह्यांगीकृत्याहमेतत्कार्यं करोमीत्युक्त्वा कर्मणा क्रियया तत्कार्यमुत्पादयेत्, गुरोर्मनसि स्थितं गुरूक्तं गुरुणा क्रियमाणं कार्यं सुशिष्येण त्वरितं विधेयमित्यर्थः ॥ ४३ ॥ ॥ मूलम् ॥ - वित्ते अ चोइए निच्चं । खिप्पं हवइ सुचोइए || जहोवइडं सुकयं । किच्चाई कुas |सया ॥४४॥ व्याख्या - वित्तो विनयादिगुणेन प्रसिद्धो विनीतशिष्योऽनोदितोऽप्रेरितोऽपि सर्वेषु कार्येषु नित्यं प्रवर्तते, कदाचित्स्वयं कार्यं कुर्वाण आचार्येण प्रेरितश्चेत्तदा क्षिप्रं भवति शीघ्रं कार्यकृद्भवति, कार्यं कुर्वन्नाचार्यप्रेरितः शिष्य एवं न ब्रूयादहं तु कार्य करोम्येव, किं भवद्भिर्वृथैव प्रलप्यते ? यथोपदिष्टं सुकृतं कार्यं सदा कुर्वीत, एकं कार्यं वाथवा कृत्यानि बहूनि कार्याणि कुर्वीत, गुर्वादेशेष्वालस्यं न विधेयं, प्रसन्नतया तदेव कार्य त्वरितं विधेयमित्यर्थः ॥ ४४ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 00000000000 399990000 | सुटीकं ॥ ३५ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy