SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३२६ ॥ 00000000 60000०७० www.kobatirth.org यिता जगाद यदि राज्यं मोक्तुं न शक्यते तदा व्योमगमनसाधिकां प्रज्ञतिविद्यां मन्मुखाद् गृहाण ? यतस्तव व्योमगतिर्यथासुखं स्यात्, प्रदत्तां तां विद्यामासाद्य सिंहरथो राजा विद्याधराग्रणीर्वभूव, प्राग्भवप्रेम संपूर्णां तां प्रियामापृच्छ्य स राजा खपुरे व्योममार्गेण समायातः, तत्र पुरे कियदिनानि स्थित्वा सिंहरथो नृपतिस्तं पर्वतं पुनर्गतः एवं स्वनगरादस्मिन्नगे नित्यं गतागतिं कुर्वन्नृपतिः सिंहरथो लोकान्नगातिरिति नाम प्राप. अन्यदा तत्र नगे तं भूपं स व्यंतर एवमाहाहं मत्स्वामिनिर्देशादेशांतरं गमिष्यामि, त्वं म पुत्री स्वनगरे नोवेमं नगं शून्यं माकार्षीः एवमुक्त्वा स व्यंतरः स्थानांतरमगात्, नृपस्तन्नगे महनगरं व्यधात्, नगातिपुरमिति नाम कृतवान्, तत्रस्थो राजा तया राज्ञ्या सह भोगान् भुंजन् सुखेन कालं निर्गमयति, तत्र राज्यं पालयतस्तस्य बहुतरः कालो ययौ अन्यदा नगातिनृपः पुरपरि - सरे वसंतोत्सवं दृष्टुं जगाम, मार्गे मंजरीपुंजमंजुलमाम्रवृक्षमद्राक्षीत्, तत एकां मंजरीं नृपतिर्लीलया स्वकरेण जग्राह गतानुगतिका लोका अपि तस्य मंजरीफलपत्रादिकं जगृहु:, भूमिपालः क्रीडां For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 19009960: सटोकं ॥ ३२६ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy