SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir उत्तरा सटीकं ॥२७६॥ 000000000000000000000 नय? तत्राहं निर्वृतात्मना परलोकहितं करिष्यामीत्युक्तवंती तां देवो मिथिलापुरी निनाय, तत्र प्रथम मदनरेखा जिनचैत्यानि नत्वा श्रमणीनामुपाश्रये जगाम, वंदित्वा पुरो निविष्टां तां प्रवर्तिन्येवं प्रतिबोधयामास, मूढचेतसो जना धर्माद्विना भवक्षयमिच्छंतोऽपि मोहवशेन पुत्रादिषु स्नेहं कुर्वति, संसारे हि मातृपितृबंधुभगिनीदयितावधूप्रियतमपुत्रादीनामनंतशः संबंधा जाताः, लक्ष्मीकुटुम्बदेहादिकं सर्व विनश्वरं, धर्म एवैकः शाश्वतः, इत्यादि साध्वीवाक्यैः प्रतिबुद्धा सा सती देवन पुत्रदर्शनार्थं प्रार्थिता एवमाह, भववृद्धिकरण प्रेमपूरेण ममालं, अतःपरं तु साध्वीचरणमेव शरणमित्यु. | क्त्वा साध्वीसमीपे सा प्रव्रज्यां जग्राह. देवस्तां वंदित्वा स्वस्थाने जगाम, पद्मरथस्य गृहे यथा यथायं बालो वर्धते तथा तथा तस्यान्ये राजानोऽनमन्. ततः पद्मरथो राजा तस्य बालस्य नमिरिति नाम कृतवान्, वृद्धिं व्रजतस्तस्य बालस्य कलाचार्यसेवनात्सर्वाः कलाः समायाताः, सकललोकलोचनहरं यौवनमप्यस्यायातं, पित्रा चाष्टाधिकसहस्रराजकन्यापाणिग्रहणं कारितं, पद्मरथोऽस्मै राज्यं दत्वा स्वयं तपस्यां गृहीत्वा केवलज्ञानं प्राप्य मोक्षं गतवान्. नमिराजा प्राज्यं राज्यं पालयामास, DOP 0000000000000 ol॥२७६॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy