SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ २५८ ॥ $७७७७६ www.kobatirth.org गजाग्रभागारूढारामे संचरामि, लज्जयेदं दोहदं भूपतेः पुरो वक्तुमशक्ता सा कृशांगी वभूव राज्ञान्यदा तस्याः कृशांगकारणं पृष्टं, अतिनिर्बंधेन सा खदोहदं कथयामास राजात्यंतं तुष्टस्तां पट्टहस्तिस्कंधे समारोप्य स्वयं तच्छिरसि छत्रं धृतवान्, तादृश एव राजा गजारूढराज्ञीपश्चाद्भागे स्थितो वने ययौ, तस्मिन् समये तत्र जलदारंभो बभूव तत्र सल्लकीप्रमुख विविधवृक्षपुष्पगंधैर्जलसिक्तमृद्गंधैश्च विह्वलीभृतः स करी मदोन्मत्तः स्ववासभूमिं स्मरन्नटवीं प्रत्यधावत् अश्ववारैः पदातिभिश्चासौ न स्पृष्टः, तेन गजेन गर्भान्वितया कदलीकोमलशरीरया राज्ञ्या सार्धं स राजा महाटव्यां नीतः, समविषमोन्नतदूरासन्नाननेकभागान् पश्यन् भृपतिर्वटमेकमायांतं दृष्ट्वा भार्याप्रतीदमवदत् हे भद्रे ! पुरःस्थ| स्यास्य वटस्य शाखामेकामवलंबेथास्त्वं, अहमप्येकां शाखामाश्रयिष्यामि, गजस्त्वेवमेव यातु ? एवमुक्त्वा राजा वटशाखायां लग्नः राज्ञी तु भयव्यग्रा वटावलंवं कर्तुमक्षमा हस्तिनाग्रतो नीता, राजा तु वटादुत्तीर्य शनैः शनैर्मिलित सैन्यः पत्नीविरहदुःखितचंपायां प्रविष्टः, राज्ञी दुष्टेन तेन हस्तिना महतीमटवीं नीता, तृषाकुलः स हस्ती चतुर्दिक्षु पानीयं पश्यन्नेकं सरो दृष्ट्वा तत्पाल्यावतीर्य For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 650000 सटीकं ॥ २५८ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy