SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा सटीक ॥१८५॥ 100000000000000000000 यिन्या निर्गतो बेन्नातटमार्गे प्रस्थितः, तदा तस्यैकः पुरुषो मिलितः, मूलदेवेन पृष्टं व त्वं यास्यसि? तेनोक्तं बेन्नातटे यास्यामि, मूलदेवेनोक्तमहमपि तत्रैव प्रस्थितोऽस्मीति सहैव बजावः, तेनोक्तमेवं | भवत्विति द्वावपि सहैव प्रस्थिती, तस्य पुरुषस्य शंबलं वर्तते, मलदेवस्य किमपि शंवलं नास्ति, अंतराटवी समायाता, द्वावप्यटव्यां प्रविष्टो, मलदेवश्चिंतयत्येष मे शंबलविभागं करिष्यति, सच भोजनसमये स्वयं भुक्ते, न किंचिददाति, मूलदेवस्त्वद्यानेन न किंचिद्दत्तं, परं कल्ये दास्यतीत्याश| यैवाग्रतो गच्छति. एवं दिनत्रयं यावन्मूलदेवेन न किंचिल्लब्धं न किंचिद्भुक्तं. चतुर्थदिने मूलदेवेन | स पुरुषः पृष्टोऽत्र क्वचित्प्रत्यासन्नो ग्रामोऽस्ति न वा ? तेनोक्तमितस्तिर्यप्रदेशे नातिदूरे ग्रामो वर्तते, परमहं तत्र न यास्यामि, अग्रे यास्यामीत्युक्त्वा स पुरुषोऽग्रे चलितः, मूलदेव एकाक्येव तत्र गतः, भिक्षा भ्रमता च मलदेवेन राद्धाः कुल्माषा लब्धाः. तान् वस्त्रांचले गृहीत्वा मूलदेवो नगराइहिर्याति तावता मासोपवासपारणे यतिरेको भिक्षार्थ ग्रामांतः प्रविशन् मूलदेवेन दृष्टः, भक्त्युल्लासेन ते कुल्माषा मूलदेवेन तस्मै साधवे दत्ताः, साधुरपि द्रव्यक्षेत्रकालभावशुद्धांस्तान् गृहीतवान्, मूलदेवेन 000000000000000000006 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy