SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१६७॥ 3000000000000000000001 मुहूर्ताः कालविशेषा घोराः प्राणापहारित्वाद्रौद्राः, शरीरमबलं बलरहितं भवति, मृत्युदायिमुहूर्तान् ज्ञात्वाप्रमत्तः सन् भारंडपक्षीव चर? एकोदराः पृथग्ग्रीवा। अन्योन्यफलभक्षिणः॥प्रमादात्ते विनश्यति । यथा भारंडपक्षिणः ॥१॥ हे साधो तथा तवापि प्रमादात्संयमजीवितस्य भ्रंशो भविष्यति. अत्रागडदत्तराजपुत्रकथा उज्जयिन्यां जितशत्रुराज्ञोऽमोघरथ नाम रथिकोऽस्ति, तस्य राज्ञो यशोमती नाम भार्यास्ति, तयोः पुत्रोऽगडदत्तो नान्ना वर्तते. अन्यदा तस्य बालभावेऽपि पिता मृतः, सोऽभीक्ष्णं रुदंती मातरं | दृष्ट्वा पृच्छति हे मातर्वारंवारं किं रोदिषि ? सा प्राह तव पितुः पदं विभूति चैषोऽमोघप्रहारी रथिको भुंक्ते, त्वं कलास्वकुशलस्तेन तव हस्ते पितुः पदं विभूतिश्च नायात्यतोऽहमत्यंतं खिन्ना निरंतरं रोदिमि, बालेन भणितं स कोऽप्यस्ति यो मम कलाः शिक्षयति ? माता प्राहास्ति कौशांब्यां दृढप्रहारी नाम कलाचार्यस्तत्र स त्वामवश्यं कलाकुशलं करिष्यति ? अगडदत्तो गतः कौशांब्यां, दृष्टो दृढप्रहारो 10॥१६७॥ नामा कलाचार्यः, कथितं तेन तस्य मातुः खेदकारणं, कलाचार्येण पुत्र इवासो खपाचे रक्षितः, De80000@@@00000000000 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy