________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥७३३॥
RECORDCRACOLOR
रूवविम्हओ॥५॥ व्याख्या-राज्ञः श्रेणिकस्य तस्मिन् संयते साधावत्यंतपरमोऽधिकोत्कृष्टोऽतुलो | निरुपमो रूपविस्मयो रूपाश्चर्यमासीत्. किं कृत्वा? तस्य साधो रूपं दृष्ट्वा. तुशब्दोऽलंकारे.॥ ५॥ |
॥ मूलम् ॥-अहो वन्नो अहो रूवं । अहो अजस्स सोमया ॥ अहो खंतो अहो मुत्ती । अहोर भोगे असंगया ॥ ६॥ व्याख्या-तदा राजा मनसि चिंतयति, अहो इत्याश्चयें, आश्चर्यकार्यस्य शरीरस्य वर्णो गौरत्वादिः. अहो आश्चर्यकृदस्य साधो रूपं लावण्यसहितं. अहो आश्चर्यकारिण्यस्यार्यस्य सौम्यता, चंद्रवन्नेत्रप्रियता. अहो! आश्चर्यकारिणी अस्य शांतिः क्षमा. अहो! आश्चर्यकारिणी चास्य मुक्तिर्निर्लोभता. अहो! आश्चर्यकारिण्यस्य भोगेऽसंगता, विषये निःस्पृहता. ॥६॥
॥ मूलम् ॥ तस्स पाए उ वंदित्ता । काऊण य पयाहिणं ॥ नाइदूरमणासन्ने । पंजली पडिपुच्छई ॥७॥ व्याख्या-तस्य साधोः पादौ वंदित्वा, पुनः प्रदक्षिणां कृत्वा, राजा नातिदूरं, नात्यासन्नः, नातिदूरवर्ती, नातिनिकटवर्ती सन् , प्रांजलिपुटो बद्धांजलिः पृच्छति प्रश्नं करोति.॥७॥
॥ मूलम् ॥-तरुणोसि अजो पवइओ। भोगकालंमि संजया ॥ उवडिओसि सामन्ने । एय
CA
७२
For Private And Personal Use Only