SearchBrowseAboutContactDonate
Page Preview
Page 1241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोक ॥६७६॥ ददतः-अष्टौ हिरण्यकोटयः, अष्टो मुकुटानि, अष्टौ कुंडलयुगलानि, अष्टौ हाराः, अष्टो गोसाहसिकं, अष्टौ ग्रामाः, अष्टौ दासाः, अष्टौ मदहस्तिनः, अष्टौ सौवर्णस्थालानि. एवमन्यदपि सारं स्वापतेयं मातृपितृभ्यां तस्य दत्तं. ततः स महाबलः प्रासादवरगत उदारभोगान् भुंजानो विचरति. तस्मिंश्च काले विमलस्वामिनः प्रपौत्रो धर्मघोषनामाऽनगारः पंचभिरनगारशतैः परिवृतो ग्रामानुग्राम विहरन् हस्तिनागपुरमागतः. तस्यांतिके नागरिकपरिषत्समागता. महाबलोऽपि धर्म श्रोतुं तत्रायातः, श्रुत्वा च धर्म वैराग्यमापन्नो महाबलकुमारो हृष्टस्तुष्टस्त्रिवारं नत्वैवमवादीत. हे भगवन् ! श्रद्दधामि निग्रंथं प्रवचनं यथा भवद्भिक्तं सत्यमेवेति. संयममार्गमहमंगीकरिष्यामि, नवरं मातापितरावापृच्छामि. गुरवः प्रोचुः प्रतिबंधं माकार्षीः. ततः स महाबलो धर्मघोषमनगारं वंदित्वा हृष्ट|स्तुष्टो रथमारुह्य हस्तिनागपुरमध्ये यत्र स्वगृहं, तत्रोपागतो रथात्प्रत्यवतरति. यत्र मातापितरो तत्रो पागत्यैवमवादीत-अहो! मातापितरो! मया धर्मघोषस्यानगारस्यांतिके धर्मः श्रुतः, स च धर्मों | मेऽभिरुचितः. ततो महाबलकुमारं मातापितरावेवमवदतां, पुत्र ! त्वं धन्यः कृतार्थश्च. ततः स महा KA.GA-CASRARIA For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy