SearchBrowseAboutContactDonate
Page Preview
Page 1234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shei Kailassagersuri Gyarmandie उत्तराहाच तस्यैतादृशोऽभिप्रायः समुत्पन्नः, धन्यानि तानि ग्रामाकरनगराणि, यत्र श्रमणो भगवान् श्रीम- | सटोकं हावीरो विहरति. राजग्रहेश्वरप्रभृतयो ये धन्यास्ते श्रमणस्य भगवतः श्रीमहावीरस्यांतिके केवलिप्रज्ञप्त ॥ ६६९ ॥ धर्म शृण्वंति, पंचाणुवतिकं सप्तशिक्षाप्रतिकं द्वादशविधं श्रावकधर्म च प्रतिपयंते, तथा मुंडीभृत्वाजगारादनगारितां ब्रजति. ततो यदि श्रमणो भगवान् श्रीमहावीरः पूर्व्यानुपूर्व्या चरन् यदोहाग-| च्छेत, ततोऽहमपि भगवतोंतिके प्रव्रजामि. उदायनस्यायमध्यवसायो भगवता ज्ञातः. प्रातश्चंपातः प्रतिनिष्क्रम्य वीतभयपत्तनस्य मृगवनोद्याने भगवान् समवस्मृतः. तत्र पर्षन्मिलिता, उदायनोऽपि तत्रायातो भगवदंतिके धर्म श्रुत्वा हृष्टश्चैवमवादोत्. स्वामिन् ! भवदंतिकेऽहं प्रवजिष्यामि. परं राज्यं कस्मैचिद्ददामीत्युक्त्वा भगवंतं वंदित्वा स स्वगृहाभिमुखं चलितः. भगवतापि प्रतिबंधं मा कारित्युक्तं. ततो हस्तिरत्नमारुह्योदायनराजा स्वगृहे समायातः. तत उदायनस्यैतादृशोऽध्यवसायः समु| त्पन्नो यद्यहं स्वपुत्रमभीचिकुमारं राज्ये स्थापयित्वा प्रव्रजामि, तदायं राज्ये जनपदे मानुष्यकेषु ! ॥६६९॥ कामभोगेषु मूर्छितोऽनाद्यनंतं संसारकांतारं भ्रमिष्यति, ततः श्रेयः खलु मम निजकं भगिनीजातं For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy