SearchBrowseAboutContactDonate
Page Preview
Page 1232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ ६६७ ॥ www.kobatirth.org त्रीणि पुष्कराणि कृतानि तेषु जललाभात्सर्वं सैन्यं स्वस्थं जातं. क्रमेणोदायनराजोजयिनीं गतः, कथितवांश्च भो चंडप्रद्योत ! तव मम च साक्षाद्युद्धं भवतु, किं नु लोकेन मारितेन ? अश्वस्थेन वा त्वया मया च युद्धमंगीकर्तव्यं. चंडप्रद्योतेनोक्तं रथस्थेनैव त्वया मया च योद्रव्यं. प्रभाते चंडप्रद्योतः कपटं कृतवान् स्वयमनलगिरिहस्तिनमारुह्य संग्रामांगणे समायातः उदायनस्तु स्वप्रतिज्ञानिर्वाही रथारूढः संग्रामांगणे समायातः तदानीमुदायनेन चंडप्रद्योतस्योक्तं त्वमसत्यप्रतिज्ञो जातः, कपटं च कृतवानसि तथापि तव मत्तो मोक्षो नास्तीति भणित्वोदायनेन रथो मंडल्यां क्षिप्तः, चंडप्रद्योतेन तत्पृष्टावनलगिरिहस्ती वेगेन क्षिप्तः स च हस्ती यं यं पादमुत्क्षिपति, तं तमुदायनः शरैविध्यति यावद्धस्ती भूमौ निपतितः तत्स्कंधादुत्तरंचंडप्रद्योतो बद्धः, तस्य च ललाटे मम दासीपतिरित्यक्षराणि लिखितानि तत उदायनराज्ञा चंडप्रद्योतदेशे स्वाधिकारिणः स्थापिताः, स्वयं तु चंप्रद्योतं काष्टपिंजरे क्षिप्त्वा सार्धं च नीत्वा स्वदेशंप्रति चलितः सा प्रतिमा तु ततो नोत्तिष्टतीति तत्रैव सा मुक्ता अविच्छिन्नप्रयाणैश्चलितस्य तस्यांतरा वर्षाकालः समायातः, तेन रुद्रो दश For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं H६६७ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy