________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटोक
॥११८८॥
STENOGRAPARMANACES
चउबिहा ।। ४॥ व्याख्या-अजीवा द्विविधा भवेयुः, एकेऽजीवा रूपिणो रूपवंतः, च पुनरन्येऽजीवा अरूपिणोऽरूपवंतः, तत्र रूपं स्पर्शाद्याश्रयभूतं मृत, तदस्ति येषु ते रूपिणः, तद्वयतिरिक्ता अरूपिण इत्यर्थः. तत्राऽरूपिणोऽजीवा दशधा उक्ताः, रूपिणो जीवाश्चतुर्विधाः प्रोक्ताः.॥४॥ पूर्वं दशविधत्वमाह
॥ मूलम् ॥-धम्मत्थिकाए तद्देसे । तप्पएसे य आहिए ।। अहम्मे तस्स देसे य । तप्पएसे य | आहिए ॥५॥ आगासे तस्स देसे य । तप्पएसे य आहिये ॥ अद्धासमए चेव । अरूबी दसहा भवे ४/॥६॥युग्मं॥ व्याख्या-अरूप्यजीव एवं दशधा भवेदिति द्वितीयगाथयान्वयः. प्रथमं धर्मास्तिकायः,
धरति जीवपुद्गलोप्रति गमनोपकारेणेति धर्मः, तस्यास्तयः प्रदेशसद्भावास्तेषां कायः समूहो धर्मास्तिकायः, सर्वदेशप्रदेशानुगतसमानपरिणतिमद्रव्यमिति भावः. १. पुनस्तदेशस्तस्य धर्मास्तिकायस्य कतमो विभागो देशस्तृतीयचतुर्थादिभागस्तद्देशो धर्मास्तिकायदेशः २. पुनस्तत्प्रदेशस्तस्य धर्मास्तिकायविभागस्यातिसूक्ष्मो निरंशोंशप्रदेशो धर्मास्तिकायप्रदेशस्तीर्थकरैराख्यातः कथितः.३. एवमधर्मो जीवपुद्गलयोः स्थिरकारी धर्मास्तिकायाविरुद्धोऽधर्मास्तिकायः. ४. पुनस्तस्याऽधर्मास्तिकायस्यापि
ACANARCOTICORNOR CREGARCANCE
॥११८८॥
For Private And Personal Use Only