SearchBrowseAboutContactDonate
Page Preview
Page 1103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उसरा सटीक ॥११७३॥ है ततेजःपद्मशुक्लाभिः षड्भिः प्रथमे समये तत्प्रतिपत्तिकालापेक्षया परिणताभिरात्मरूपत्वं प्राप्ताभिः सतीभिः परभवे कस्यापि जीवस्योपपातो नास्ति न भवतीत्यर्थः. उपपत्तिनं भवतीत्यनेन प्रथमसमये लेश्यासूत्पन्नासु परभवे जीवो नोत्पद्यते. सर्वाभिलेश्याभिश्चरमसमयेंत्यसमये परिणताभिरात्मरूपतामापन्नाभिः सतोभिः परभवे कस्यापि जीवस्योपपातो नास्तीति.॥५८॥५९॥ तर्हि कदोत्पद्यते? इत्याह ॥ मूलम् ॥ अंतोमुहुत्तमि गए। अंतमुहुत्तंमि सेसए चेव ॥ लेसाहिं परिणयाहिं । जीवा गच्छंति परलोयं ॥६०॥ व्याख्या-लेश्यामिः परिणताभिः सतीभिः शुभाशुभाभिः षभिः सतीभिरंतमुहूर्ते गते सत्यंतर्मुहुर्ते च शेषेच सति जीवाः परलोकं परभवं गच्छंतीत्यनेन जीवस्य मरणकाले आगामिभवलेश्यांतर्मुहतं यावदवश्यं भवति. तथा पुनर्जीवस्योत्पत्तिकालेऽतीतभवलेश्यांतर्मुहतं यावदवश्यं भवति. अन्यथा नराणां तिरश्चां च देवत्वे नारकत्वे चोत्पत्स्यमानानां मृत्युकालेंतर्मुहर्तमुत्तरभवलेश्याः कथं संभवंति? तथा देवानां नारकाणां च च्यवनानंतरं नरतिर्यक्षुत्पन्नानां प्राग्भवलेश्या अंतर्मुहूर्तं कथं संभवंति ? तस्मादंतर्मुहूर्तावशेष आयुषि परभवलेश्यापरिणामो भवत्येव, यदुक्तमा KARNAGAR ॥११७३॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy