SearchBrowseAboutContactDonate
Page Preview
Page 1051
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ३११२१ ॥ www.kobatirth.org 1 ॥ मूलम् ॥ कोहं च माणं च तहेव मायं । लोभं दुगंछं अरई रई च ॥ हासं भयं सोगपुमित्थवेयं । नपुंसवेयं विवि य भावे || २ || आवजई एवमणेगरूवे । एवंविहे कामगुणेसु सत्तो ॥ अन्ने य एयप्पभवे विसेसे । कारुण्णदीणे हरिमे वइस्से ॥ ३ ॥ युग्मं ॥ व्याख्या - कामगुणेषु शब्दादिविषयेषु सक्तो रागी जीव एवममुना रागवत्वलक्षणप्रकारेणानेकरूपान्नानाविधान् विकारानेवंविधानुक्तस्वरूपाननंतानुबंधिप्रमुखानापद्यते प्राप्नोति च पुनरेतत्प्रभवानेतेभ्यः क्रोधादिभ्यः प्रभवा उत्पन्ना एतत्प्रभवास्ता नेतत्प्रभवान् क्रोधादिजनितान् परितापदुर्गतिपातादीन् प्राप्नोति कोदृशः सन् ? करुणायै अर्हः कारुण्यः, कारुण्यत्वेन दीनः कारुण्यदीनोऽत्यंतं दीन इत्यर्थः पुनः कीदृशः ? ह्रीमान् | लज्जितः प्रीतिविनाशादिकमिहैवानुभवन्, परत्र च विपाकमतिकटुकं परिभावयन् पुनः कीदृशः ? 'वइस्से' इत्यात्वाद् द्वेष्यः सर्ववाप्रीतिकर इत्यर्थः इति द्वितीयगाथया संबंधमुक्त्वा प्रथमाया अर्थमाह - विषयासक्तो जीवः कान् कान् स्वरूपानापद्यते ? इत्याह - विषयासक्तो जीवः कदाचित्क्रोधं प्राप्नोति च पुनर्मानं प्राप्नोति, तथैव मायां प्राप्नोति तथा लोभं मूच्छां प्राप्नोति, 'दुगंछं' इति For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ।।११२१ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy