SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie सटीक उत्तरा- परं नैवं चिंतयति-नानाशास्त्रसुभाषितामृतरसैः श्रोत्रोत्सवं कुर्वतां । येषां यांति दिनानि पंडितज नव्यायामखिन्नात्मनां ॥ तेषां जन्म च जीवितं च सफलं तैरेव भूर्भषिता। शेषैः किं पशुवद्विवेकरहित भारभूतैनरैः ॥२॥ एवं पंडितगुणानचिंतयन् मुर्खगुणांश्चासतोऽपि चिंतयन् ज्ञानावरणीयं कर्म वध्वा दिवं गतः, ततश्च्युतो भरतक्षेत्रे आभीरपुत्रो जातः, क्रमेण परिणीतः; तस्य पुत्रिका जाता, सा रूपवती. अन्यदानेकाभीरा घृतभृतशकटाः किंचिन्नगरंप्रति गच्छंति, असावपि तत्सार्थे वृतभृतं शकटं गृहीत्वा चलितः, मागें सा पुत्री शकटखेटनं करोति. ततस्तद्रूपव्यामोहितैराभीरपुत्रैरपथे खेटितानि शकटानि, तानि सर्वाणि भग्नानि, तादृशं संसारखरूपं दृष्ट्वा संजातवैराग्यः स आभीरस्तां पुत्रीमुद्वाह्य दीक्षांजग्राह. उत्तराध्ययनयोगोद्वहनावसरेऽसंख्याध्ययनोद्देशे कृते तस्याभीरभिक्षोर्शानावकरणोदयो जातः, न तदध्ययनमायाति, आचाम्लान्येव करोति, उच्चैःस्वरेण तदध्ययननिघोंषं करोति. एवं च कुर्वतस्तस्य द्वादशवर्षप्रांतेऽज्ञानपरीषहं सम्यगधिसहमानस्य केवलज्ञानं समुत्पन्नं. एवमज्ञानपरीषहे आभीरसाधुकथा. यस्य च ज्ञानाजीणं स्यात्तेनापि ज्ञानपरीषहो न सोढस्तत्रार्थे स्थूलभद्रकथा यथा De@ORCE0000000000000 300000000000000000000 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy