SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अमृतनादोपनिषत् । काभ्यां स्निग्धत्वमतिधावल्यमुच्यते । तत्प्रभः स्निग्धत्वे सत्यतिधवल इत्यर्थः । उदानवर्णमाह-आपाण्डुरः समन्तात्पाण्डुरः श्वेतः । उदानश्च व्याख्यातः । चशब्दासमानाविनाभूतश्च । व्यान उक्तः । हि प्रसिद्धः । उदानेनाविनाभूतः । अचि:समप्रभः । ज्वालासमानवर्णः ॥ ३७ ॥ यस्यैतन्मण्डलं भित्त्वा मारुतो याति मूर्धतः ।। यंत्र तत्र म्रियेतापि न स भूयोऽभिजायते न स भूयोऽभिजायत इति ॥ ३८ ॥ इत्यथर्ववेदेऽमृतनादोपनिषत्समाप्ता ॥ ३ ॥ इदानी प्राणस्य पञ्चनामाङ्कितस्य पञ्चस्थानस्य चिन्तनोत्थापनोभ्यासाभ्यां वशीकृतस्य फलमाह-यस्य प्रसिद्धस्य प्राणध्यानाभ्यासवतः । एतत्कपालकुहरान्तर्वति मण्डलं कपालपुटत्रयद्वारवि(पि)धायकं चन्द्र भित्त्वा योगाभ्यासेन गुरूपदेशेन विभिद्य मारुतः प्राणादिपञ्चकरूपो वायुर्याति गच्छति । मूर्धतो मूर्भो दशमद्वारात् । यत्र तत्र म्रियेतापि । अपिशब्दो वाकारार्थः । यत्र तत्र वा वाराणस्यादौ कीकटादौ वा प्राणापरित्यजेत् । मूर्धद्वारेण विनिर्गतोऽचिरादिमार्गेण ब्रह्मलोकं प्राप्य तत्रोत्पन्नब्रह्मज्ञानः स मूर्ध्नि विनिर्गतो भूय एतच्छरीरोत्पत्त्यनन्तरं नाभिजायते न सर्वत उत्पद्यते । न स भूयोऽभिजायते । व्याख्यातम् । पदाभ्यास उपनिषदर्थपरिसमाप्त्यर्थः। इत्युपनिपत्समाप्त्यर्थः ॥ ३८ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यानन्दात्मपूज्यपादशिप्यस्य श्रीशंकरानन्द भगवतः कृतिरमृतनादोपनिषद्दीपिका समाप्ता ॥ ५ ॥ १ ख यस्येदं मण्ड' । २ ख. तत्र । ३ क. येद्वाऽपि । ४ ग. "न्तनात्स्थाप'। ५ ग. घ. 'नायभ्या। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy