________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
Ach
५३६
नारायणविरचितदीपिकासमेताभूतं भवद्भविष्यदिति सर्वमोंकार एव । यच्चान्यत्रिकालातीतं तदप्योंकार एव सर्व होतब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पाज्जागरितस्थानो बहिष्मनः
तिपत्त्युपायत्वाद्ब्रह्मसमीपतया कथनं प्रस्तुतमिति शेषः । भूतमित्यादि कालत्रयपरिच्छेचं यत्तदकार एव वाच्यवाचकाभेदात्तस्य चोंकारमात्रत्वाद्यच्चान्यत्रिकालातीतं कालत्रयापरिच्छेद्यमव्याकृतं सूत्रं च तदपि सर्वमोंकार एव वाच्यस्य वाचकानतिरेकन्यायात् । यत्त्वत्र त्रिकालातीतं निर्गुणं ब्रह्म ( तन्न ) ग्राह्यं तस्यावाग्विषयत्वेन लक्ष्यत्वे. नोंकारातिरेकात् । नन्वोमित्येतदित्यनेन वाच्यवाचकयोरैक्यसिद्धौ किमर्थ भूतमित्यादिना पुनरैक्यमुच्यते । पूर्वेण वाचकेन वाच्यस्यैक्यमुक्तं द्वितीयेन वाच्येन वाचकस्यैक्यमुच्यत इति चेन्न । एकोक्त्यैव द्वयोरभेदसिद्धेः। न हि वाचकेन वाच्यमभिन्नमित्युक्ते वाच्येन वाचकस्य भेदस्तिष्ठति । उच्यते । परस्परैक्यवचनं द्वयोरेकत्वप्रतिपत्यर्थम् । इतरथा ह्यभिधानताऽभिधेयप्रतिपत्तिरित्यभिधेयस्याभिधानत्वं गौणमित्या. शङ्का स्यात् । अत एवाग्रे निरस्ताविद्यातमोमोहोऽहमेवेति संभाव्योऽहमित्यनेन रामात्मनोः परस्परैक्यं वदिष्यति । उक्ते वाच्यवाचकाभिन्नत्वे प्रविलापनं प्रयोजनमाहसर्व ह्येतद्ब्रह्मेति । सर्व यदुक्तमोकारमात्रमिति तदेतत्कारणं कार्य च ब्रह्म । तत्कि परोक्षं नेत्याह-अयमात्मा ब्रह्मेति । यद्ब्रह्म श्रुत्या सर्वात्मकमुक्तं तन्न परोक्षमिति मन्तव्यं किं त्वयमात्मेत्यन्वयः । चतुष्पात्त्वेन प्रविभज्यमानं प्रत्यगात्मतयाऽभिनयन्निदिशति--अयमात्मेति । हस्ताग्रं हृदयदेशमानीयायमिति प्रदर्श्यते । ओंकाराभिधेयः परापरत्वेन व्यवस्थितश्चतुष्पात्त्वविधानार्थ निर्दिश्यते-सोऽयमात्मेति । चतुप्पाच्चत्वारः पादा जाग्रदादिरूपा यस्य स तथा । तत्र त्रयाणां पादानां पद्यतेऽनेनेति करणव्युत्पत्त्या तुरीयप्राप्तौ करणत्वं चतुर्थस्य तु पद्यते य इति कर्मव्युत्पत्त्या प्राप्यत्वेन फलत्वम् । विश्वादीनां हि त्रयाणां पूर्वपूर्वप्रविलापनेन तुरीयस्य प्रतिपत्तिरिष्टा । साकारपक्षे भरतादिभिस्त्रिभिः फलभूतेनाऽऽत्मना च चतुष्पात्त्वम् । न त्वात्मनो निरवयवस्य पादद्वयमपि नोपपद्यते तत्कथं चतुष्पात्त्वमत आह-जागरितस्थान इति । परमार्थतश्चतुष्पात्त्वाभावेऽपि काल्पनिकमुपायोपेयभूतं पादचतुष्टयमविरुद्धमिति भावः । जागरितं स्थानमभिमानस्य विषयभूतमस्य स तथा । साकारपक्षे जागरूको लक्ष्मणः । बहिष्पज्ञ इति । प्रज्ञायास्तावदान्तरत्वप्रसिद्धरयुक्तं बहिष्प्रज्ञत्वमिति चेन्न । बहिः स्वात्मव्यतिरिक्ते विषये प्रज्ञाऽस्य स बहिष्प्रज्ञः । यद्यपि चैतन्यलक्षणा प्रज्ञा स्वरूपभूता न बाटे विषये प्रतिभासते तस्या विषयानपेक्षत्वाबाह्यस्य च विषयस्य वस्तुतोऽ. भावान्न वा स्वरूपप्रज्ञा वस्तुतो वाह्यविषयेष्यते तथाऽपि बुद्धिवृत्तिरूपाऽसावज्ञानकल्पिता तद्विषया भवति न च वस्तुतः साऽपि तद्विषयतामनुभवति । वस्तुनः स्वयमभावा
For Private And Personal