SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५२४ नारायणविरचितदीपिकासमेता- [१० खण्डः ] अर्चाविधाविति । अस्य रामस्या विधौ पूजाविधौ पीठस्याधरदेशार्चनमूर्ध्वदेशार्चन पार्श्वभागार्चनं मंध्यवर्तिनः पद्मस्यार्चनं च कृत्वा पीठस्याविषु धर्मादिकानयेदिति संबन्धः । रत्नबद्ध आसने या मृदुः कोमला श्लक्ष्णा मनोहरा समाना रत्नासनतुल्यपरिमाणा या तूलिका तस्यां देशिकं देश उपदेशोऽस्यास्ति देशिकः 'अत इनिठनौ' । उपदेष्टा तं चार्चयित्वा संपूज्य । पीठाधरभागादिषूक्तमर्चनं विशदयति-शक्तिमिति । शक्तिं चाऽऽधाराख्यकामाधारशक्ति कूर्मः कच्छपो नागः शेषस्तौ च पृथिवीलक्षणे चाब्ने कमले । एताः स्वासनस्य देवतासनस्याधः प्रकल्प्य । तदुक्तम्- "आधारशक्तिं प्रयत्पङ्कजद्वयधारिणीम् । मूर्ध्नि तस्याः समासीनं कूर्म नीलाभमर्चयेत् ।। ऊवं ब्रह्मशिलासीनमनन्तं कुन्दसंनिभम् । यजेच्चक्रधरं मूर्ध्नि धारयन्तं वसुंधराम् ॥ तमालश्यामलां तस्मिन्नीलेन्दीवरधारिणीम् । अभ्यर्चयेद्वसुमती स्फुरत्सागरमेखलाम् । तस्यां रत्नमयं द्वीपं तस्मिंश्च मणिमण्डपम्" इति । एवं मण्डपान्तं पूजयित्वा मण्डपप्रवेशे द्वारे । ॐ विं विघ्नाय नमः । ॐ दुं दुर्गायै नमः । ॐ शं क्षेत्रपालाय नमः । ॐ वां वाण्यै नम इति बीजादिकान्यथास्थानमभ्यर्च्य । तदुक्तं डामरे “ओंकारबिन्दुमध्यस्थनामधेयाद्यमक्षरम् । देवतानां स्वबीजं तत्पूजायामृद्धिसिद्धिदम्" इति । अग्निदेशादिकान्धर्मादीन् । तदुक्तम्- “यजेत्कल्पतरूंस्तस्मिन्साधकाभीष्टसिद्धिदान् । अधस्तात्पूजयेत्तेषां वेदिकां मण्डलोज्ज्वलाम् । । पश्चादभ्यर्चयेत्तस्यां पीठं धर्मादिभिः पुनः ॥ . रक्तश्यामहरिद्रेन्द्रनीलान्पादपरूपिणः । वृषकेसरिभूतेभरूपान्धर्मादिकान्यजेत् ॥ गात्रेषु पूजयेत्तास्तु नपूर्वाननुक्रमात् ()। आग्नेय्यादिषु कोणेषु दिक्षु चाथाम्बुनं यजेत् " इति । अधिषु पादेषु नपूर्वान्धर्मादिकान् । तस्य पीठस्य दिक्षु पूर्वादिषु । मध्य इति । सूर्येन्द्वग्नयः क्रमेण पूज्याः । यद्वृत्तत्रयं तद्रजः सत्त्वं तम एतानि यानि गुणरूपाणि घ. धौ च। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy