SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४८४ नारायणविरचितदीपिकासमेताहृदि ध्यानप्रकारमाह आदित्यमण्डलं दिव्यं रश्मिज्वालासमाकुलम् ॥ आदित्येति । दिव्यमादित्यमण्डलम् । रश्मीनां किरणानां ज्वालाभिः समाकुलम् । अनेन चन्द्रोऽप्युक्तो द्रष्टव्यः । तस्मिन्सूर्येन्दुपावकानित्युक्तत्वात् । वह्निमेव ध्येयतया निर्दिशतितस्य मध्ये गतो वह्निः प्रज्वलेहीपतिवत् ॥५॥ इति प्रथमः खण्डः ॥१॥ तस्येति । तस्याऽऽदित्यस्य मध्ये गतः प्रविष्टो वह्निर्दीपवर्तिवत्प्रज्वलेत्प्रज्वलति॥५॥ । इति प्रथमः खण्डः ॥ १ ॥ दीपशिखायां या मात्रा सा मात्रा परमेष्ठिनः ॥ १॥ मात्रा परिमाणम् । सा परमेष्ठिनो ब्रह्मणो वह्नेर्वा देहाधिष्ठातुर्मात्रा । इदं वर्या॑नं याज्ञवल्क्येनोक्तम्तद्यथा--- "हृत्सरोरुहमध्येऽस्मिन्प्रकृत्यात्मककर्णिके ।। अष्टैश्चर्यदलोपेते विकारकेसरैर्युते ॥ ज्ञाननाले बृहत्कन्दे प्राणायामप्रबोधिते । विश्वार्चिषं महावहिं ज्वलन्तं विश्वतोमुखम् ।। वैश्वानरं जगद्योनि शिखातन्विनमीश्वरम् । तापयन्तं स्वकं देहमापादतलमस्तकम् ॥ निर्वाते दीपवत्तस्मिन्दीपितं हव्यवाहनम् । दृष्ट्वा तस्य शिखामध्ये परमात्मानमक्षरम् ॥ नीलतोयदमध्यस्थविद्युल्लेखेव भासते । नीवारशूकवद्रूपं पीतामं सर्वकारणम् ॥ ज्ञात्वा वैश्वानरं देवं सोऽहमात्मेति या मतिः । सगुणेषूत्तमेष्बे(मं ह्ये)तध्यानं योगविदो विदुः ॥ वैश्वानरत्वं संप्राप्य मुक्तिं तेनैव गच्छति " इति ॥ १॥ इदानीमेतद्ध्यानविशुद्धात्मनः सुषुम्नापश्चिममार्गेण षट्चक्रभेदनद्वारोवा गतिमाह. भिन्दन्ति योगिनः सूर्य योगाभ्यासेन वै पुनः ॥२॥ . भिन्दन्तीति । सूर्य सहस्रदलस्थमधिदैक्तमादित्यं च भिन्दन्ति योगाभ्यासेनोपायेन ॥२॥ .१ क. तिदी। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy