SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४६३ [७ सप्तमः प्रपाठकः ] मैन्युपनिषत् । शनिराहुकेतू ० क्षान्तः शान्त इति । विधरणो विधारको वर्णाश्रममर्यादाया इत्यर्थः । भान्तो भासा युक्तः । क्षान्तः क्षमावांस्तथा शान्तः ॥ ६ ॥ एवमधिदैवं ध्येयं सविस्तरमुपदिश्य तदनूद्य तस्याध्यात्मं ध्येयं स्वरूपमुपदिशति एष हि खल्वात्माऽन्तर्हृदयेऽणीयानिद्धोऽग्निरिव विश्व रूपोऽस्यैवानमिदं सर्वमस्मिन्नोता इमाः प्रजाः । एष हि० हिताय नम इति । योऽधिदैवतमादित्यमण्डल उपास्य उक्त एष ह्येव खल्वात्माऽन्तर्हृदये हृदयस्यास्य स्थानस्याणीयस्त्वादणीयानतिसूक्ष्मः । अग्निरिव दीपशिखेवेद्धो दीप्यमान इत्येतत् । विश्वरूपः सर्वरूपो वैश्वानरो भोक्तेति यावत् । अतोऽस्यैवान्नमिदं सर्वमविशेषेण सर्वप्राणिभिरद्यमानमिदमन्नमस्यैव वैश्वानरात्मनोऽन्नमिति दृष्टिविधीयते । अस्मिन्वैश्वानरात्मनीमाः प्रसिद्धाः प्रजाः. स्थावराद्या ओता आश्रिताः पैटा इव तन्तूनेनमाश्रित्य स्थिता इत्यर्थः । सर्वात्मको वैश्वानरो भोक्ता तस्यैवेदं सर्वैरद्यमानं सर्वप्रकारमन्नमिति ध्यात्वा प्राप्तमन्नं भुञ्जानोऽन्नदोषैर्न लिप्यत इत्येवमर्थ सूचयन्त्यात्मानं विशिनष्टि एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविचिकित्सोऽविपाशः सत्यसंकल्पः सत्यकाम एष परमेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एष हि खल्वात्मेशानः शंभुर्भवो रुद्रः प्रजापतिविश्वमृग्घिरण्यगर्भः सत्यं प्राणो हंसः शास्ताऽच्युतो विष्णुर्नारायणः । एष इति । अपहतपाप्मा पुण्यपापलेपरहित इत्यर्थः। पुण्यमप्यत्र पापशब्देन गृह्यते तस्यापि पापवत्संसारबन्धहेतुत्वात् 'उभे हवैष एते तरति न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्ते' इति च श्रुतेः । विजरो विमृत्युरिति जरामृत्युधमकात्स्थूलदेहाद्विविच्यते । विशोक इति शोकादिधर्मकादन्तःकरणात् । विविधा चिकित्सा विचिकित्सा सहजस्य शुद्ध्याधेर्निवर्तनं सा यस्यास्ति स विनिकित्सोऽन्नोपष्टब्धजीवनः प्राणस्तस्मादन्योऽयमात्माऽविचिकित्सः । अत एवात्र शाखान्तरेऽविनिघत्स इति पठ्यते । खादितुमिच्छा जिघत्सा तया रहितोऽविनिघत्स इत्यर्थः । अविपाश इति वर्णव्यत्ययेनापिपासः पिपासारहितः पिपासाधर्मकात्प्राणादन्य इत्यर्थः । स्थूलसूक्ष्मदेहोपाधिनिषेधे तद्दोषानास्कन्दितत्वात्सत्यसंकल्पः सत्या अवितथाः संकल्पा यस्य सः । अत एव सत्यकामः काम्यन्त इति कामाः सत्या यथासंकल्पमवश्यंभा १ क, विधार । २ ग. शान्त इत्यर्थः ॥ ६ ॥ ३ ग. पट। ४ ग. तन्तुजातमा । ५ ग. 'त्यतम । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy