SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४५४ रामतीर्थविरचितदीपिकासमेता-- [१ षष्ठः प्रपाठकः ] अष्टपादं शुचिं हंसं त्रिसूत्रमणुमव्ययम् । द्विधर्मोन्धं तेजसेन्, सर्व पश्यन्पश्यति ॥ अष्टपादमिति । अष्टौ दिशः पादा यस्य सोऽष्टपादस्तम् । सविता ह्यन्तरिक्षस्थः पादैरिव दिग्भिः प्रतितिष्ठतीव विभाव्यते । यद्वा 'आरोगो भ्रानः पटरः पतङ्गः स्वर्णरो ज्योतिषीमान्विभासः कश्यपोऽष्टमः स महामेरुं न जहाति' इति तैत्तिरीयारण्यकोक्ता आरोगादयोऽष्टौ पादा ज्ञेयाः । शुचिं शुद्धमलेपकमित्येतत् । हसं हन्ति गच्छतीति हंसस्तं परिभ्रमन्तमिति यावत् । अथ वा हंस इति सूर्यनाम 'हंसः शुचिषत्' इति ‘असौ वा आदित्यो हंसः शुचिषत्' इति ब्राह्मणदर्शनात् । त्रिसूत्रं त्रीणि सूत्राणि सूचकानि बन्धनानि वा यस्य स त्रिसूत्रस्तम् । ऋग्यजुःसामभिर्हि प्रतिपाद्यते सविता त्रय्यात्मकमण्डलनिवद्धश्च । तथा च श्रुतिः-'सैषा त्रय्येव विद्या तपति' इति । अणुं सूक्ष्ममिन्द्रियागोचरम् । अव्ययं शाश्वतम् । द्विधर्मोन्धं द्वाभ्यां धर्माभ्यां पुण्यपापाभ्यामन्धमनव. भासमानं पुण्यपापरहितमित्यर्थः । धर्मोन्धमितिच्छान्दसः । तेजसेन्धं तेजसेद्धं दीप्तम. तितेजस्विनमित्यर्थः । एवंविधमीश्वरं सवितारं पश्यन्सर्व पश्यति तदात्मभावनां कुर्वन्सर्वज्ञो भवतीत्यर्थः । किं बहुनाऽयमेव सर्वात्मको नातःपरमस्तीति तं महीकर्तुं पुनरुपादत्ते नभसोऽन्तर्गतस्य तेजसोऽशमात्रमेतद्यदादित्यस्य मध्ये उँदित्वा मयूखे भवत एतत्सवित्सत्यधर्म एतद्यजुरेतत्तप एतदग्नि रेतद्वायुरेतत्माण एतदाएं एतच्चन्द्रमा एतच्छुक्रमेतदमृतम् । नभसोऽन्तर्गतस्येति । किं तद्यदादित्यस्य मध्य उदित्वोद्गम्य मयूखे अंशू भक्तः प्रभवतः समर्थौ भवतो जगत्प्रकाशयितुमित्यर्थः । द्विवचनं प्राधान्याभिप्रायम् । उदुत्वा मयूखे इति पाठ उदूर्ध्वमुत्वोद्गम्य मयूखे उत्प्रभवत इत्यन्वयः । उदयाचलमारूढे सवितरि ततः प्रथमं निर्गते मयूखे मण्डलमतिक्रम्य ब्रह्माण्डमण्डलमखिलमवभासयन्ती उच्चैः प्रसर्पत इत्यर्थः । यदेतन्मयूखद्वयं प्राधान्येनोक्तमेतत्सवित्सवितृरूपम् । सत्यधर्मो मयूखोपलक्षितं सवितृस्वरूपं सत्यधर्म इत्यर्थः । एतद्यजुरित्याग्रस्य महिमोपयासः स्पष्टार्थः। एतद्ब्रह्मविषयमेतद्भानुरर्णवस्तस्मिन्नेव यजमानाः सैन्धव इव टेलीयन्त एषा वै ब्रह्मैकताऽत्र हि सर्वे कामाः समाहिता इत्यत्रोदाहरन्ति । १ ग. शुचि । २ क. तेजसोन्धमेनं प । ३ क. 'श्यन्न प। ४ ग. शुचि । ५ क. तेजसोन्धं । ६ क. त्यम । ७ क. उदुत्वा । ८ क. 'त्सत्यं । ९ क. पश्चन्द्र। १० क. विट' । ११ क. तृरू। १२ क. लीयन्त । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy