SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [ ६ षष्ठः प्रपाठकः ] मैत्र्युपनिषत् । ४४३ सिद्धमित्यर्थः । कर्मेन्द्रियैर्हयशब्दनिर्दिष्टेर्विषयान्प्राप्नोतीत्यपि द्रष्टव्यम् । तथा चोक्तं प्राद्वितीये प्रपाठके – 'बुद्धीन्द्रियाणि यानीमान्येतान्यस्य रश्मयः कर्मेन्द्रियाण्यस्य हयाः ' इति । एतदुक्तं भवति । इन्द्रियाणामचेतनानां भौतिकत्वेऽपि चेतनैकायत्तत्वं परमार्थत इत्यात्मात्मकानीत्याद्युच्यते व्यवहारतस्तु विषयालोकाद्यहीनत्वेन तन्नियम्यता चेति । यदधीनत्वमित्थमिन्द्रियाणामुक्तं स आत्मा कतम इति पृच्छति- कतम आत्मेति । कतम आत्मेतीति । देहेन्द्रियमनोबुद्धिप्राणेष्वह महमित्युलिरूपमानेषु कतमः किं तेष्वन्यतमः किं वाsन्य एव तेभ्य इति प्रश्नार्थः । उत्तरमाह - ० योऽयं शुद्धः पूतः शून्यः शान्तादिलक्षणोक्तः स्वकैलिङ्गैरुपगृह्यः । योऽयं शुद्धः स्वकैलिङ्गैरुपगृह्य इति । योऽयमात्मा शुद्धः पूतः शून्यः शान्त इत्यादिना द्वितीयप्रपाठके शुद्धत्वादिलक्षण उक्तः स्वकैरसाधारणैर्लिङ्गैः स्वरूपसद्भावसाधकैरुपगृह्यो देहादिप्राणान्तेषु संघातात्मकेषूप समीपे तत्संनिहितरूपतया ग्राह्य इत्यर्थः । संघातादन्योऽचेतनसंघातं चेतयमानोऽतस्तत्साक्षितया भासमान आत्मेत्युत्तरमुक्तं भवति । * स्वकैर्लिङ्गैरुपगृह्ये इत्युक्तं तत्र कानि स्वकानि लिङ्गानीति जिज्ञासायां तानि मतभेदेनानेकधोपदिशति तस्यैतल्लिङ्गमलिङ्गस्याग्नेर्यदौष्ण्यमाविष्टं चापां यः शिवतमो रस इत्येकेऽथ वाक्श्रोत्रं चक्षुर्मनः प्राण इत्येकेऽथ बुद्धिर्धृतिः स्मृतिः प्रज्ञनमित्येके । तस्यैतल्लिङ्गं० प्रज्ञानमित्येक इति । तस्याऽऽत्मनोऽलिङ्गस्य परमार्थतो निर्धर्मकत्वेन लिङ्गरहितस्यैतद्वक्ष्यमाणं लिङ्गं लिङ्गयते ज्ञाप्यतेऽनेनेति लिङ्गं ज्ञापकमित्यर्थः । किं तदित्यपेक्षायां दृष्टान्तोक्त्यैव तदाह - अग्नेरिति । यद्यद्वदौष्ण्यमग्नेर्लिङ्गं तप्तोदकादिगतेनौ व्येन यथा तत्राग्निर्लिङ्गयत आविष्टं चेन्धनावेशादिनिमित्तं धूमादि च लिङ्गमग्नेर्यथा चापां लिङ्गं यः शिवतमो निरुपाधिमधुरो रसः क्षीरादिष्वप्युपलभ्य · मानः । रसस्य हि स्वाभाविकं स्वरूपं माधुर्यमेवान्यथात्वं तु तस्य पार्थिवेषु परिणामविशेषोपाधिकृतमिति मधुररसो यत्र क्वाप्युपलभ्यमानोऽपां सद्भावज्ञापक इत्यर्थः । तऽऽत्मनोऽचेतनेषु देहादिषुपलभ्यमानं चैतन्यं देहद्वयावेशकृतं प्रीणादिकं च लिङ्ग १. गृह्यते । त । २क. 'ह्यत इ' । ३ क. 'विटमपां । ४क. 'ज्ञा तदित्ये' । ५ क.. 'न्तोक्त्या त' । ६ कं. प्राणनादि । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy