SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir रामतीर्थविरचितदीपिकासमेता- [६ षष्ठः प्रपाठकः ] - नित्यमुक्तस्य जितेन्द्रियस्याभिमानशून्यस्य- षड्भिर्मासैस्तु युक्तस्य योगनिरतस्य प्रागुक्तवर्मना प्रणवाभ्यासं कुर्वतो देहिनोऽनन्तः परमो गुह्यः सम्यग्योगः परमात्मसंपत्तिलक्षणः प्रवर्तते सिध्यतीत्यर्थः । रजस्तमोभ्यां विद्धस्य सुसमिद्धस्य देहिनः। पुत्रदारकुटुम्बेषु सक्तस्य न कदाचन ॥ २८ ॥ __ सुसमिद्धस्य विद्याविनयाचारैः सुदीप्तस्यापि देहिनो रजस्तमोभ्यां गुणाभ्यां विद्धस्य परवशस्य तावमुञ्चतः पुत्रादिष्वत एव सक्तस्य न कदाचन सम्यग्योगः प्रवर्तत इत्यर्थः ॥ २८॥ इदानी वालखिल्याख्यायिकामुपसंहरन्नुक्तयोः सगुणनिर्गुणविद्ययोः संप्रदानविशेषमुपदिशति शाकायन्य इत्याह एवमुक्त्वाऽन्तर्हृदयः शाकायन्यस्तस्मै नमस्कृत्वाऽनया ब्रह्मविद्यया राजन्ब्रह्मणः पन्थानमारूढाः पुत्राः प्रजापतेरिति संतोषं द्वंदतितिक्षा शान्तत्वं योगाभ्यासादवामोतीत्येतद्रुह्यतमं नापुत्राय नाशिष्याय नाशान्ताय कीर्तयेदित्यनन्यभक्ताय सर्वगुणसंपन्नाय दद्यात् ॥ २९ ॥ एवमुक्त्वाऽन्तहृदय इत्यादिना । एवममुना प्रकारेण ब्रह्मविद्यामनेकप्रकारां बृहद्रथायोक्त्वाऽन्तरेव प्रत्यक्तत्त्वे हृदयं बुद्धिर्यस्य सोऽन्तर्हृदयः शाकायन्य ऋषिस्तस्मै ब्रह्मणे स्वगुरवे वा नमस्कृत्वाऽनया मया तुभ्यमुक्तया ब्रह्मविद्यया परापरब्रह्मविषयया हे राजन्ब्रह्मणो यथोक्तस्य पन्थानं ब्रह्मप्राप्तिमार्गमारूढाः प्रजापतेः क्रत्वाख्यस्य पुत्रा वालखिल्यसंज्ञिता मुनय इत्युवाचेति योज्यम् । योगाभ्यासात्संतोषाद्यवाप्नोतीत्येवं चोवाचेत्यध्याहारः । एतदुक्तं ब्रह्मज्ञानं गुह्यतममतिगोप्यं रहस्यतममपु. त्राय न कीर्तयेन्नोपदिशेत् । तथाऽशिष्याय शिष्यवृत्तिरहिताय न कीर्तयेत् । शिष्यत्वे पुत्रत्वे च यद्यशान्तः साभिमानस्तस्मै, अशान्ताय न कीर्तयेत् । तस्माच्छान्ताय शिष्याय पुत्राय वा कीर्तयेन्नान्यस्मै कस्मैचनेत्यर्थः । तथा चोक्तं श्रुत्यन्तरे-"वेदान्तं परमं गुह्यं पुराकल्पप्रचोदितम् । नाप्रशान्ताय दातव्यं नापुत्राशिष्याय वा पुनः" (श्वे० ) इति । फलितमाह-अनन्यभक्तायाऽऽचार्यैकमननपराय सर्वगुणसंपन्नाय दद्यादिदं ज्ञानमित्यर्थः । शिष्यगुणाश्च श्रुतिस्मृतिपुराणसिद्धाः संगृह्य भगवत्पादैराचार्यैरुक्ताः "प्रशान्तचित्ताय जितेन्द्रियाय प्रहीणदोषाय यथोक्तकारिणे । गुणान्वितायानुगताय सर्वदा प्रदेयमेतत्सततं मुमुक्षवे” इति ॥ २९ ॥ १ क. 'त्ययुक्त । २ क. तिगुह्यं र । ३ क. कदाच । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy