________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४१६ रामतीर्थविरचितदीपिकासमेता- [६ षष्ठः प्रपाठकः ]
तत्रैकैकमात्मनो नवांशकं सचारकविधं __तत्रेति । तत्र तेषु नक्षत्रेषु नवांशा यस्मिंस्तन्नवांशकं यदेकैकं नवांशकं तदात्मनः संवत्सरात्मन एकैकोऽवयव इति योज्यम् । अंशः पादो नवांशा नव पादाः सपादनक्षत्रद्वयावच्छिन्न एको राशिः सूर्यगत्यनुसारेणैको मासः संवत्सरात्मनः कालस्यैकोऽवयव इत्युक्तं भवति । तथा च तत्तन्मासस्वभावभेदनियमेनापि कालकल्पनमुन्नेयम् । एतत्सर्व सचारकविधं चारश्वङ्क्रमणं नक्षत्रादिषु परिभ्रमणं तत्र विधा प्रकारस्तया विधया सहितं सचारकविधम् । एतच्च ज्योतिःशास्त्रात्कलादिकालावयवगणनया सूर्यचारमालोच्य सर्वमवधेयमिति तात्पर्यार्थः । उक्तैरेवावयवैः कालोऽनुमेय इत्यत्र हेतुमाह
सौम्यत्वादेतत्पमाणमनेनैव प्रमीयते हि कालः । सौक्षम्यत्वादिति । सूक्ष्मत्वादित्यर्थः । इन्द्रियागोचरत्वात्कालस्यैतत्पूर्वोक्तमयनादिरूपं प्रमाणं कालास्तित्वे । तत्रानुभवं संवादयति-अनेनैव हि पूर्वोक्तप्रकारेण कालः प्रमीयते सम्यगवधार्यते न प्रत्यक्षादिनेत्यर्थः ।। किमेवं प्रमाणोपन्यासेनास्ति चेत्कालः स्वयमेव दृश्यतेति मन्दाशङ्कायामाह
न विना प्रमाणेन प्रमेयस्योपलब्धिः । नेति । अनादिमायावच्छिन्नचिद्विलासरूपस्य कालस्य जडत्वात्प्रमेयान्तरवन्मानाधीनसिद्धिकत्वमित्यर्थः ।
यदि कालस्य प्रमेयत्वं तर्हि निमेषादीनामपि कालावयवानां कालत्वाविशेषादभेदे सति कथं कालेन कालप्रमेत्यत आह
प्रमेयोऽपि प्रमाणतां पृथक्त्वादुपै
त्यात्मसंबोधनार्थमित्येवं ह्याह । प्रमेयोऽपीति।पृथक्त्वादवयवावयविभावेन भेदात्प्रमेयोऽपि प्रमाणत्वमुपैति प्राप्नोति। किमर्थम् । आत्मनः स्वस्य सम्यग्बोधनार्थमवधारणार्थ दीपप्रकाशेन दीपानुमानवदित्यर्थः । एवं ह्याहैवंविधः कालः सूर्याधीन इत्यत्रोदाहरणमाहेत्यर्थः ।
यावत्यो वै कालस्य कलास्तावतीषु चरत्यसौ यः कालं
ब्रह्मेत्युपासीत कालस्तस्यातिदूरमपसरतीत्येवं ह्याह । यावत्यो वै० एवं ह्याहेतीति । यावत्यो वै प्रसिद्धाः कालस्य कला अंशास्तावतीष्वसौ सविता चरति तत्प्रवर्तकत्वेन विचरति ताः संपादयतीत्यर्थः । अतो यः कालं कलयितारं कालरूपमादित्यं ब्रह्मेत्युपासीत तस्योपासकस्यातिदूरं कालोऽपसरति सकृन्मृत्वा पुनर्मरणाय न जायते कालव्याप्यो न भवतीत्यर्थः ।
१ कः लस्यापि प्र। २ क. °लस्य रू।
For Private And Personal