________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४१४
रामतीर्थविरचितदीपिकासमेता - [६ षष्ठः प्रपाठकः ]
विषयाध्यवसाये सत्यानन्दोदयाद्विज्ञानस्याऽऽनन्दो रस इति यो हैवं वेदेति संबन्धः ।
सोऽन्नवान्प्राणवानित्यादिफलवचनम् ।
दृष्टं फलमुक्त्वाऽदृष्टं च फलमाह
यावन्तीह वै भूतान्यन्नमदन्ति तावत्स्वन्तःस्थोऽन्नमत्ति यो हैवं वेद ।
Acharya Shri Kailashsagarsuri Gyanmandir
यावन्तीति । यावन्तीह लोके भूतान्यन्नमदन्ति भक्षयन्ति तावत्सु सर्वेषु तेषु भूतात्मा सन्नन्तःस्थो भूतान्तःस्थोऽन्नमत्त्युपासकः । तावत्स्वन्तरस्थ इति पाठे तेषु भूतेवैस्थितस्तेष्वभिमानशून्यः सन्नन्नमत्तीत्यर्थः । कः । यो हैवं विश्वभृद्गुणं विष्णुर्तेनुमन्नं वेदोपास्त इत्यर्थः ।
उक्तमुपास्यमन्नं विष्णुतनुत्वदृश्यर्हत्वाय स्तुत्यर्थं श्लोकमुदाहरतिअन्नमवे विजरन्नमन्नं संवननं स्मृतम् ।
अन्नं पशूनां प्राणोऽन्नं ज्येष्ठमन्नं भिषक्स्मृतम् || १३ |
अन्नमेवेति । अन्नमेव विजरद्विजरत्वं नयतीति विजरन्नं विजरमेव वा विजरन्नम् । तथा च श्रुत्यन्तरम् -- 'अन्नं ब्रह्माणोऽजरं वदन्ति' इति । तथाऽन्नं संवननं संभजनीयं स्मृतं ज्ञातम् 'अन्नं बहु कुर्वीत तद्व्रतम्' इति श्रुत्यन्तरात् । अन्नं पशूनां प्राणिनां प्राणः ‘अन्नात्प्राणा भवन्ति’इति श्रुतेः । अन्नं ज्येष्ठं प्रथमजं रसाद्यपेक्षया पूर्वसिद्धत्वात् 'अन्नं हि भूतानां ज्येष्ठम्' इति श्रुत्यन्तरात् । अन्नं भिषग्भेषजं क्षुद्व्याधिनिवर्तकं स्मृतं तस्मात्सर्वौषधमुच्यत इत्यन्नं प्रकृत्य श्रवणादिति श्लोकार्थः ॥ १३ ॥
पुनरस्यैवाऽऽत्मनः कालात्मकादित्ये दृष्टिं विधातुमुत्तरमनुवाकत्रयं प्रवर्तते । तत्रा - न्नस्य कालाधीनत्वात्कालस्य चाऽऽदित्याधीनत्वादन्नोपासनानन्तरं कालादित्योपासनविधानमिति संगतिं विवक्षकालात्मानं स्तौति
अथान्यत्राप्युक्तमनं वा अस्य सर्वस्य योनिः कालश्चान्नस्य सूर्यो योनिः कालस्य ।
अथान्यत्राप्युक्तमन्नमित्यादिना । अथेत्युपासनान्तरोपक्रमार्थः । अन्यत्रापि कालविषय इदमुक्तमन्यत्राप्युक्तमिति वा । अन्नं वै प्रसिद्धमस्य प्राणिजातस्य सर्वस्याशेषस्य योनिः कारणम् । कालश्चास्यन्न योनिरित्यनुवर्तते कालेन ह्यन्नं प्रसूयते । सूर्यः सविता कालस्य योनिः । तस्य हि कालनिर्मातृत्वं प्रसिद्धम् । तत्र कालस्वरूप तत्प्रमाणयोरभावात्कथं कालोऽन्नस्य योनिरित्यत आहतस्यैतद्रूपं यन्निमेषादिकालात्संभृतं द्वादशात्मकं वत्सरमेतस्याऽऽग्नेयमर्धमर्ध वारुणम् ।
१ क. 'स्थोऽन्न ं । २ क. 'त्स्ववस्थ । ३ क. 'ध्ववस्थि' । ४क. 'तत्त्व' । ५ कार्यवि ।
For Private And Personal