SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [६ षष्ठः प्रपाठकः] मैञ्युपनिषत् । ४०९ हस्तावन्न भवति यावत्कार्याकारेण न प्रसूतिः प्रसवः । तस्मात्कार्य त्रिगुणात्मकं भोज्यं दृष्ट्वा कारणं प्रधानमपि त्रिगुणात्मकं भोज्यमनुमेयमित्यभिप्रायः । यदुक्तं पूर्व प्रकृतिकार्यस्य भूतात्मनोऽन्नत्वं तस्याप्यवस्थावत्त्वात्परिणामित्वमस्तीति त्रिगुणात्मकत्वमन्नत्वं च सिद्धमित्याह तस्याप्येवं तिसृष्ववस्थास्वन्नत्वं भवति कौमारं यौवनं जरा परिणामत्वात्तदन्नत्वम् । तस्याप्येवं० जरा परिणामत्वात्तदनत्वमिति । अवस्थात्रयमेव विभजते-कौमारमित्यादिना । अवस्थात्रयस्य कार्यत्वं साधयति-परिणामत्वादिति । तदन्नत्वं तस्य भूतात्मनोऽन्नत्वं सिद्धमित्यर्थः । कार्यद्वारोक्तं प्रधानभोज्यत्वं प्रपञ्चयति एवं प्रधानस्य व्यक्ततां गतस्योपलब्धिर्भ वति तत्र बुद्ध्यादीनि स्वादुनि भवन्ति । एवं प्रधानस्येत्यादिना । एवं वक्ष्यमाणेन प्रकारेण प्रधानस्य व्यक्तता गतस्य कार्यतामापन्नस्योपलब्धिर्भवति । कथं तदाह—तत्र व्यक्तेषु प्रधानकार्येषु यत्स्वादु स्वादेनमास्वादनं ग्रहणमिति यावत्तस्मिन्स्वादुनि तन्निमित्तं बुद्ध्यादीनि करणानि भवन्ति प्रवर्तन्ते, बुद्धयादिभिः प्रधानकार्य गृह्यत इत्यर्थः । बुद्धयादिस्वरूपं मध्ये व्यपदिशति अध्यवसायसंकल्पाभिमाना इत्यथेन्द्रियार्थान्पश्च स्वादुनि भवन्ति । अध्यवसायेति । निश्चयात्मिका बुद्धिरध्यवसायः संकल्पनव्यापारवदन्तःकरणं मनः संकल्पोऽहंकारात्मिकाऽन्तःकरणवृत्तिरभिमान इत्येते बुद्धयादिशब्दार्था इत्यर्थः । अथ बुद्धयायुद्भवे जाग्रद्दशायामिति यावत् । इन्द्रियार्थाशब्दस्पर्शरूपरसगन्धाख्यान्विषया. प्रति पञ्च ज्ञानेन्द्रियाणि श्रोत्रत्वक्चक्षुजिह्वाघ्राणाख्यानि पूर्ववत्स्वादुनि भवन्त्युक्तान्विषयान्स्वादयितुं करणानि भवन्तीत्यर्थः । उक्तमर्थ कर्मेन्द्रियेषु मुख्यप्राणे चातिदिशति-- एवं सर्वाणीन्द्रियकर्माणि प्राणकर्माणि।। एवमिति । सर्वाणि वाक्पाणिपादपायपस्थाख्यानामिन्द्रियाणां कर्माणि प्राणस्य मुख्यस्य कर्माणि प्राणनापाननादीनि वचनादानगमनविसर्गानन्दाश्शरीरचालनादीन्प्रति स्वादुनि भवन्तीति योजना। १ क. मत्व' । २ क. णामित्वा। ३ क. गामित्वा ।४ क. स्वानि । ५ क. 'दनं । ६ क. स्वादूनि । ७ क. "स्वादूनि । ८ ग. णे वाऽति । ९ क. स्वादूनि । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy