SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३५८ रामतीर्थविरचितदीपिकासमेता-[ २ द्वितीयः प्रपाठकः ] भूतानि शरीरं यः सर्वाणि भूतान्यन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः' (बृहदा० अ० ३ ब्रा० ७ ) इति । ऊर्ध्वरेतप्त इति संबोधनम् । यत एवमसङ्गस्वभावोऽत एव स एष वै शुद्धो रागादिकालुण्यरहित एव । पावयति पुनातीति वा पूतः कर्तरि निष्ठा न कर्मणि। आत्मान्यस्य सर्वस्यापि जडतयाऽशुचेरात्मपावयितृत्वानुपपत्तेः । शून्यो निष्प्रपञ्चः । शान्तो निर्विकारः कूटस्थ इत्यर्थः । अप्राणः प्राणहीनः प्राणनादिधर्मरहित इत्यर्थः । निरात्माऽत्राऽऽत्मेति मन उच्यते मनोरहितः संकल्पाध्यवसायादिधर्मरहित इत्यर्थः । अन्तो विनाशस्तद्रहितोऽनन्तः । अक्षय्यः क्षेतुमशक्योऽपक्षयरहित इत्यर्थः । स्थिरो वृद्धिरहितः । शाश्वतः शश्वद्भवः सर्वदैकरूपो विपरिणामशून्य इत्यर्थः। अजो जन्मरहितः । स्वतन्त्रो जन्मानन्तरभाव्यस्तित्वविकाररहितः । एवंविध आत्मा व तिष्ठतीत्यपेक्षायामाह स्वे महिम्नि तिष्ठत्यजेनेदं शरीरं चेतनवत्म तिष्ठापितं प्रचोदयिता वैषोऽप्यस्यति । स्वे महिम्नि तिष्ठतीति । स्वस्वरूपे स्थितो नास्याऽऽधारोऽस्तीत्यर्थः । तथा च श्रुत्य. न्तरम्-'" स भगवः कस्मिन्प्रतिष्ठित इति 'स्वे महिम्नि यदि वा न महिम्नि" (छा० अ० ७ ख० २४ ) इति । अन्यो ह्यन्यस्मिन्प्रतिष्ठितो भवति नास्यान्योऽस्ति यत्रायं प्रतिष्ठितः स्यात् । तस्मात्स्वमहिम्न्येवावस्थितो नान्याधीनतयेत्यर्थः । य एष एवंलक्षण आत्माऽनेनेदं शरीरं चेतनवचेतनमिव प्रतिष्ठापितं व्यवहारकालेऽबाधिततया स्थापितम् । अस्य शरीरादिसंघातस्य प्रचोदयिता प्रेरकेश्च घो वाऽस्ति सोऽप्येष एवेति होवाचेति संबन्धः । अचेतने देहादी चेतयितृत्वनियन्तृत्वाभ्यां ताटस्थ्येनास्तीति प्रतिपन्नस्य जिज्ञासितस्य स्वरूपमेतत्स वा एष इत्यादि तिष्ठतीत्यन्तेनाभिहितम् । एतच्चोपदेशमात्रेणोक्तं युक्तितो व्यवस्थापयितुं पुनः प्रश्नमुत्थापयति ते होचुर्भगवन्कथमनेनेदृशेनानिष्ठेनैतद्विधमिदं चेतनवत्पति ष्ठापितं प्रचोदयिता वैषोऽस्य कथमिति तान्होवाच ॥ ४ ॥ ते होचुः होवाचेति । ईदृशेनोक्तलक्षणेन स्वे महिम्नि स्थितेनेत्यर्थः । अत एवानिष्ठेन निष्ठा तात्पर्य ममानेन भाव्यमित्येवमाकारा प्रणतिः सा यस्य नास्ति सोऽ. निष्ठस्तेन । देहादावहंममताहेतुशून्येनेत्यर्थः । अनिष्टनेति पाठेऽयमर्थः । इष्टमिच्छा भावे निष्ठा नास्तीष्टं यस्य सोऽनिष्ट इच्छारहितस्तेनेति । अणिठेनेति पाठे तु सूक्ष्मतरेण दुर्लक्ष्येणेत्यर्थः । व्याख्यातार्थमन्यत् ॥ ४ ॥ सत्यमेवंविधस्याऽऽत्मनः परमार्थतश्चेतयितृत्वं प्रेरयितृत्वं वा न संभवति तथाऽपि १ क. त्माऽत्मे । २ क. कश्चासौ यो। ३ क. 'मुपपादय । ४ क. निष्ठेनै ।। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy