SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मुक्तिमार्गे सुषुम्ना सा ब्रह्मरन्ध्रे प्रतिष्ठिता। अव्यक्ता सैव विज्ञेया सूक्ष्मा सा वैष्णवी स्मृता" इति ।। ॥९॥ १० ॥ ११ ॥ प्रणवो नादरूपेण सर्वव्याप्येवेत्याह वरदः सर्वभूतानां सर्व व्याप्यैव तिष्ठति । कांस्यघण्टानिनादस्तु यथा लीयति शान्तये ॥ १२॥ ओंकारस्तु तथा योज्यः शान्तये सर्वमिच्छता।। यस्मिन्संलीयते शब्दस्तत्परं ब्रह्म गीयते ॥ १३ ॥ वरद इति। अनेनोंकारोऽनाहतशब्दो विष्णुश्चैक इत्युक्तं भवति । इदानी लयमाहयथा लीयतीति । यथा लीयति लीनो भवत्युपरतव्यापारो भवत्योंकारस्तथा शान्तये योज्यः प्लुततरो जप्तव्य इत्यर्थः । सर्व सर्वात्मभावं ब्रह्मभावमिच्छता यस्मिन्सलीयते यद्वस्त्वनुभूय शब्दो विषये नोपलभ्यते विलीयते तत्परं ब्रह्म । तदुक्तं हठपदीपिकायाम् "काष्ठे प्रवर्तितो वह्निः काष्ठेन सह शाम्यति । नादे प्रवर्तितं चित्तं नादेन सह लीयते ॥ विसृज्य सकलं बाह्यं नादे दुग्धाम्बुवन्मनः । एकीभूयाथ मनसा चिदाकाशे विलीयते' इति । लयलक्षणं तु "लयो लय इति प्राहुः कीदृशं लयलक्षणम् । अपुनर्वासनोत्थानाल्लयो विषयविस्मृतिः” इति ।। यद्वा यतो वाचो निवर्तन्त इत्यर्थः ॥ १२ ॥ १३ ॥ उपसंहरति ध्रुवं हि चिन्तयेद्ब्रह्म सोऽमृतत्वाय कल्पते सोऽमृतत्वाय कल्पत इति ॥ १४ ॥ इत्यथर्ववेदे ब्रह्मविद्योपनिषत्समाप्ता ॥२४॥ ध्रुवमिति । ध्रुवमोंकारं हि ब्रह्म चिन्तयेद्धवमेकरूपं वैकाग्रतया वा ब्रह्म चिन्तयेत् । द्विरुक्तिः समाप्त्यर्था ॥ १४ ॥ इति द्वितीयः खण्डः ॥ २ ॥ नारायणेन रचिता श्रुतिमात्रोपजीविना । अस्पष्टपदवाक्यानां दीपिका ब्रह्मवेदने ॥ १ ॥ इत्यथर्ववेदे नारायणविरचिता ब्रह्मविद्योपनिषद्दीपिका समाप्ता ॥ ३१॥ For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy