________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नारायणविरचितदीपिकासमेताननु शुभाशुभेषु कर्मसु सत्सु कथमानन्दानुभवः सुषुप्तेऽपि स्यादित्याशङ्कय शुभाशुभाभावं प्रतिपादयितुं दृष्टान्तमाह
यथैवैष देवदत्तो यष्ट्योऽपि ताड्यमानो
न यत्येवमिष्टापूर्तेः शुभाशुभैर्न लिप्यते । यथैवैष देवदत्तो यष्टयाऽपि काष्ठेनापि ताड्यमानः । न यति न याति । छान्दसो ह्रस्वः । न गच्छति न पलायते सुषुप्तौ तत्कस्य हेतोरितरानुभवाभावादित्येव तदपि कुतः कारणाधर्माभावादेवमनेन निदर्शनेनेष्टापूतॆरिष्टापूर्तयोः कर्ता तत्फलैर्न लिप्यते ।
यथा कुमारो ननु यथा सुषुप्ते दुःखहेतुरधर्मो नास्ति तथा सुखहेतुर्धर्मोऽपि नास्ति तत्कुत आनन्दानुभव इत्याशङ्कय यद्यपि धर्महेतुक आनन्दो नास्ति तथाऽपि नित्यानन्दो वर्तते योऽनुभूयत इत्युत्तरिते किं तत्र प्रमाणमिति पृष्टेऽनुभवं प्रमाणयति-यथेति । ननु तस्यापि क्रीडनकादिनिमित्त आनन्दो भविष्यतीत्यत आहनिष्काम आनन्दमुपयाति तथैवैष देवदत्तः स्वमं आनन्दमभियाति । निष्काम इति । तदुक्तम्___ "द्वावेव चिन्तया मुक्तौ परमानन्दसंप्लुतौ ।
यो विमुग्धो जडो बालो यो गुणेभ्यः परं गतः" इति ॥ स्वप्ने सुषुप्ते । नन्वानन्दः सुखं तत्सुषुप्तौ ज्ञानाभावे कथं भासतेऽत आह
वेद एव परं ज्योतिः। वेद एवेति । वेत्तीति वेदः । जानात्येवेत्यर्थः । यतः परं ज्योतिः परं साधननिरपेक्ष ह्यात्मज्योतिः "न हि द्रष्टुर्दष्टेविपरिलोपो विद्यतेऽविनाशित्वात्" इति श्रुतेः । ननु यद्यपि वेदस्तथाऽपि निष्कामः कथमानन्दं पश्येदत आह
ज्योतिष्कामो ज्योतिरानन्दयते । ज्योतिष्काम इति । “आत्मनस्तु कामाय सर्वं प्रियं भवति" इति श्रुतेरात्मनो नित्यकाम्यत्वाज्ज्योतिष्कामः सन्नात्मरूपं ज्योतिरानन्दयते । आनन्दरूपमनुभवति । सुषुप्तावन्यकामाभावे परिशेषसिद्धमात्मकामत्वम् । विमतः सकामः पुरुषत्वाज्जासत्पुरुषवन्न च परमात्मनि व्यभिचारः पक्षतुल्यत्वात् । “आत्मकाम आप्तकामः" इति श्रुते. स्तस्याप्यात्मनः सकामत्वात् ।
१ ग. 'ष्ट्यादिना ता । २ ग. प्रस्थान है।
For Private And Personal