SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir परमहंसोपनिषत् । आत्महा. भवेत् । तस्माद्भिक्षुहिरण्यं रसेन न दृष्टं च न स्पृष्टं च न ग्राह्यं च । सर्वे कामा मनोगता व्यावर्तेत । दुःखे नोद्विग्नः मुखे न स्पृहा त्यागो रागे नादी०आत्महेति । असङ्गस्याभोक्तुरात्मनो हिरण्यसङ्गित्वभोक्तृत्वाङ्गीकारात् । यत्स्मृतिः- “योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चौरेणाऽऽत्मापहारिणा" इति ॥ श्रुतिरपि तस्यान्धतामिस्रलोकानाह-“असुर्या नाम ते लोका अन्धेन तमसा वृताः। सांस्ते प्रेत्याभिगच्छन्ति ये के चाऽऽत्महनो जनाः" इति । न दृष्टं च न स्पृष्टं च न प्राथं चेति । इच्छेदिति शेषः । चकारैः श्रुतं च कथितं च व्यवहृतं च नेच्छेदिति समुच्चयः । दर्शनस्पर्शनग्रहणवदभिलाषपूर्वका हिरण्यवृत्तान्तश्रवणतद्गुणकथनतदीयक्रियादिव्यवहारा अपि प्रत्यवायहेतव इत्यर्थः । हिरण्यवर्जनस्य फलमाह-सर्वे कामा मनोगता व्यावर्तन्त इति । 'पुत्रभार्यादिकामानां हिरण्यमूलत्वादिति भावः । कामनिवृत्तेः फलमाह-दुःखे नोद्विमः सुखे निःस्पृह इति । दुःखे सत्युद्वेगं न गतः सुखेडभिलाषरहितः स्थितप्रज्ञ इत्यर्थः । सुखदुःखयोरविक्षेपकत्वे तत्साधनयोरप्यविक्षेपकत्वमाह-त्यागो राग इति । रागे रञ्जनहेतावैहिकामुष्मिके तस्य त्यागो भवति. फलानपे शं० दी. आत्महा भवेत् । ग्राह्यं गृह्णाति मदीयमिति स्वी करोति । आत्महा सत्यज्ञानानन्दानन्तात्मस्वरूपस्य हन्ता । नाऽऽत्मवधादधिकं किंचि. पापं स्थावरजङ्गमात्मकस्य विश्वस्याऽऽत्मन्यन्तर्भावादित्यर्थः । अन्यत्पूर्ववयाख्येयम् । तस्मात्ततः । ब्रह्मवधपौल्कसत्वप्राप्त्याऽऽत्मवधदोषकारणाद्भिर्हिरण्यं न दृष्ट न स्पृष्टं न ग्राह्यं च । चकारो निषेधावधारणार्थः । व्याख्यातानि शिष्टानि पदानि । इदानी मानसं कर्तव्यमाह-सर्वे कामाः सर्वेभ्य इहामुत्रार्थभोगेभ्यो मनोगता मनोगतेम्यो विविधवासनारूपेण चित्ते वर्तमानेभ्यो व्यावर्तेतारतिं कुर्यात् । विविधेषु भोगेषु छर्दितान्नसमानबुद्धिं कुर्यादित्यर्थः । दुःखे नोद्विग्नः, अस्य भिक्षोः प्रतिकूलवेदनीये सति न संतापः शूरस्येव समरमूर्धनि प्रहारे । सुखे न स्पृहा अनुकूलवेदनीये स्पृहाऽमिलाषो न दुर्जनवाक्यैर्दूषितहृदयस्येव स्रक्चन्दनादिभोगे । त्यागो रागे रागो योषि-' सङ्गामिलाषस्तद्विषये त्यागस्तस्य वर्जनम् । यद्यपि सर्वे कामा मनोगता व्यावर्तेतेत्यत्रापि परित्याग उक्तस्तथाऽप्येतत्त्यागे महान्यत्नः करणीय इत्येतदर्थमस्य विशेषतोऽभिधानम् । अथवा त्यागे राग इति विभक्त्योयत्ययेन वाक्यं पठित्वैवं व्याख्येयम् । १. इ. 'ताझ्याव। २ ख. व्यावर्तन्ते । ३ ख. ग. ङ, खे निःस्पृहस्त्यागो । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy