SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir परमहंसोपनिषत् । . २९५ इदमन्तरं ज्ञात्वा स परमहंसः ॥३॥ आशाम्बरो ननमस्कारो न स्वधाकारो न निन्दा न स्तुतिर्यादृच्छिको नादी०सर्वाशी वावय॑मकृत्वा सर्वमश्नाति । “नान्नदोषेण मस्करी" "चातुर्मास्यं चरेद्रेक्षम्" इत्यादि ज्ञान(नि)विषयमयं च ज्ञानवर्जित इति युक्तोऽस्य नरकः । इदमन्तरं ज्ञात्वा स परमहंस इति । इदं ज्ञानदण्डकाष्ठदण्डयोरन्तरमुत्तमत्वाधमत्वलक्षणमुक्तं तज्ज्ञात्वोत्तमं ज्ञानदण्डं यो धारयति स एव परमहंसो मुख्यो ज्ञेय इत्यर्थः ॥३॥ ननु मा भूदस्य काष्ठदण्डोऽन्यातु चर्या कीदृशीत्याशङ्कयाऽऽह-आशाम्बर इत्यादि। भाशा एवाम्बरं यस्य दिग्वासाः । तथा न नमस्कारः कर्तव्यो यस्य स ननमस्कारः । निषेधार्थनकारसमासत्वान्नलोपाभावः । तदुक्तम्-"निर्नमस्कारमस्तुतिम्" इति । गया. दावपि न स्वधाकारो यस्य । तथा न निन्दा न स्तुतिः । निन्दागर्वे यादिवाक्ये परैः कृतया निन्दयाऽस्य क्लेशो निवारितोऽत्र तु स्वकर्तृके निन्दास्तुती निषिध्येते । यादृच्छिको शंदी भावो रौरवमज्ञानप्रधानं क्रन्दनादि येषु ते महारौरवास्तेषां संज्ञा येष्वस्ति ते महारौरवसंज्ञास्तान् । इदमिदानीमुक्तं महारौरवादिप्राप्तिलक्षणं सर्वाशिनः काष्ठदण्डधारिणो ज्ञानवर्जितस्य । अन्तरं ज्ञानदण्डकाष्ठदण्डधारिणोर्मेदः । ज्ञात्वाऽवगत्य । स यो ज्ञानदण्डधारी सति काष्ठदण्डे वाऽसति प्रसिद्धः । परमहंसः परमहंसशब्दाभिधेयः ॥ ३ ॥ मानसानि कर्तव्यान्युक्त्वा शारीराण्याह-आशाम्बरः । आशा दिशोऽम्बराणि वस्त्राणि यस्य संवर्तकादेः सोऽयमाशाम्बरः । न अनेन कर्तव्यः । नमस्कारः, अष्टाङ्गादिदेवादीन्प्रति नतिविशेषः । न स्वधाकारः, पितॄनुदिश्य स्वधाकारोऽपि न । न निन्दा जनस्य विद्यमानाविद्यमानदोषा(ष)संकीर्तनम् । न च पुनरुक्तिः । निन्दापरत्वात् । यथाव्याख्यातस्यैव तत्राभीष्टत्वात् । यतः पूर्व मानसस्य स्वनिमित्तस्य परित्याग इदानी स्वकर्तृकस्य वाचनिकस्येति विशेषः । न स्तुतिः, धनिकदेवादीनुद्दिश्य मनोरमणाद्यर्थ समुच्चारणं स्तुतिरपि न कर्तव्या । न च स्तुतिकरणे न कोऽपि बाध इति मन्तव्यम् । यत एकं स्तुवतोऽर्थादपरस्य निन्दा जायते द्वेषश्च कस्यचित्प्रत्यक्षतस्ततो गुणदोषदर्शनं दोषपक्ष एव निक्षेपणीयमित्यभिप्रायेणाऽऽह-न स्तुतिरिति । एतेन नमस्कारादयोऽपि व्याख्याताः । तत्राप्युक्तदोषस्य तुल्यत्वात् । शारीरं वर्ण्यमुक्त्वा करणीयमाह-यादृच्छिकः, सदनृतसुवृत्तदुर्वृत्तत्वादिपरित्यागेनानपकारिणी स्वात्मनो जनसङ्गवर्ननहेतुशास्त्रविव(वि)क्तिभ्यां प्रापितेच्छा यदृच्छा सा यस्यास्ति स यादृच्छिको १ ख. रो निर्नम । २ ख. तिर्न वषट्कारो याद । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy