________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२९६
परमहंसोपनिषत् । सर्वान्कामान्परित्यज्य अद्वैते परमस्थितिः । ज्ञानदण्डो धृतो येन एकदण्डी स उच्यते ॥
काष्ठदण्डो धृतो येन सर्वाशी ज्ञानवर्जितः। नादी इत्यादिना संक्षिप्योत्तरमुक्त्वा संशयविपर्ययेत्यादिना तदेव प्रपञ्च्येदानीमुप. संहरति—सर्वान्कामान्परित्यज्य अद्वैते परमा स्थितिरिति । क्रोधलोभादीनां कामपूवकत्वात्कामपरित्यागेन चित्तदोषाः सर्वे त्याज्यन्ते । अत एव वाजसनेयिनाम्-'अथो खल्वाहुः काममय एवायं पुरुषः" इति। ननु मा भूत्कर्ममार्गत्यागे दोषश्चतुर्थाश्रमलिङ्गत्यागनिमित्तो दोषस्तु स्यादेवेत्यत आह-ज्ञानदण्ड इत्यादि । त्रिदण्डिनो यथा वाग्दण्डो मनोदण्डः कायदण्डश्चेति त्रिविधो दण्ड एवमेकदण्डिनां द्विविधो ज्ञानदण्डः काष्ठदण्डश्चेति । तेषां स्वरूपं च दक्षेणोक्तम्
"वाग्दण्डे मौनमातिष्ठेत्कर्मदण्डे त्वनीहताम् ।
मानसस्य तु दण्डस्य प्राणायामो विधीयते" इति ॥ एवं सति मौनादीनां वागादिगमनहेतुत्वाद्यथा दण्डत्वं तथैवाज्ञानतत्कार्यदमनहेतोर्ज्ञानस्यापि दण्डत्वम् । अयं ज्ञानदण्डो येन परमहंसेन धृतः स एव मुख्यदण्डीत्युच्यते । मानसस्य ज्ञानदण्डस्य चित्तविक्षेपेण विस्मतिर्मा भूदिति स्मारकः काष्ठदण्डो ध्रियत एतदज्ञात्वा वेषमात्रेण पुरुषार्थसिद्धिमभिप्रेत्य येन परमहंसेन काष्ठदण्डो धृतः स बहुशंदी०म्यन्ते परमहंसस्तु तत्त्वंपदार्थभेदभङ्गेऽपि न नियतं तिष्ठन्नासीनो वोपलभ्यत इत्यत आह–सर्वान्कामान्, अखिलान्मनोरथानिहामुत्रार्थभोगविषयान् । परित्यज्य विहाय । अद्वैते निखिलद्वैतजालशून्य आनन्दात्मनि । परमस्थितिः परमोत्कृष्टोत्थान. शून्या स्थितिरवस्थितिर्यस्य स परमस्थितिः । ततस्त्रैवर्णिकेभ्योऽभ्यधिक इत्यर्थः । ननु तथाऽपि "कृत्वोचं वैणवं दण्डम्" इत्यादिश्रुतेः कथं वैणवदण्डराहित्येऽपि संवर्तकादेः पारमहंस्यमित्यत आह-ज्ञानदण्डो ज्ञानमहं ब्रह्मास्मीति बोधस्तदेव भेदनरागद्वेष. गोसादिदमनहेतुर्दण्डो ज्ञानदण्डः । धृतः स्वीकृतः । येन संवर्तकारुणिश्वेतकेतुदुर्वासोभृगुनिदाघजडभरतदत्तात्रेयरैवतकादिना । एकदण्डी, एक एव ज्ञानदण्डो यस्यास्त्येकदण्डी । स उच्यते स संवर्तकादिविद्वद्भिरेकदण्डीति कथ्यते । नन्वयमप्येकदण्डी वैणवदण्डधार्यपि तथा ततश्चोभयोः साम्यमित्याशङ्कय नेत्याह-काष्ठदण्डः, काष्ठं दण्डः काष्ठं वेणुरूपं दण्डः काष्ठदण्डः । धृतः स्वीकृतः । येन परमहंसेन विविदिषा. शून्येन । एवं च सत्यूल क्रमसंन्यासो न कस्यापीत्यत आह–सर्वाशी सर्व विषयजातं परमहंसाश्रमिणः शास्त्रे निषिद्धं तस्याशनमुपभोग आशः सोऽस्यास्तीति सर्वाशी । न त्वाश्रमधर्मवर्ती काष्ठदण्डधार्यपीत्यर्थः । ननु सर्वाशित्वं चेद्दोषस्तत्संवर्तका दिष्वपि क्वचित्संभावितं किमुताऽऽधुनिकेष्वित्यत आह-ज्ञानवर्जितः, अहं ब्रह्मास्मीति
१ घ. ङ. 'रमे स्थि' । ख. रमा स्थि।
For Private And Personal