SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २८८ नारायणशंकरानन्दविरचितदीपिकाभ्यां समेता न शीतं न चोष्णं न सुखं न दुःखं न मानावाने च षडूमिवर्ज * निन्दागर्वमत्सरदम्भदपेच्छाद्वेषसुखदुःखकामक्रोधैलोभमोहेना०दी० कः प्रतीकार इत्यत आह-न शीतमित्यादि । निरुद्धाशेषचित्तवृत्तेोगिनः शीतादि नास्ति तत्प्रत्ययाभावाद्यथा वा बालस्य लीलासक्तस्य शीताद्यभाव एवं परमास्मन्यासक्तस्य योगिनः । न चोष्णमिति । वर्षाभावसमुच्चयार्थश्चकारः । शीतादिनिषेधे तज्जन्यसुखादेरभावान्न सुखमित्यादि । मानः पुरुषान्तरेण संपादितः सत्कारः । अवमानस्तिरस्कारः । यदा योगिनः स्वात्मव्यतिरिक्तं पुरुषान्तरमेव न प्रतीयते तदा मानावमानौ दूरापास्तौ । चकारः शत्रुमित्ररागादिद्वंद्वाभावं समुच्चिनोति । षडूमयः-"क्षुत्पिपासे शोकमोहौ जरा मरणमेव च" । तेषां त्रयाणां द्वंद्वानां क्रमेण प्राणमनोदेहधर्मवादात्मतत्त्वाभिमुखस्य योगिनस्तद्वर्जनं युज्यते । न शब्दं न स्पर्श न रूपं न रसं न गन्धं न मनोऽप्येवमित्यग्रन्थः शिष्टैरव्याख्यातत्वात् । अस्त्वेवं समाधिदशायां शीताद्यमावो व्युत्थानदशायां निन्दादिक्लेशः संसारिणमिवैनं बाधेतैवेत्यत आह-निन्देति । रोषमदावनाौं । विरोधिभिः पुरुषैः स्वस्मिन्नापादितदोषोक्तिनिन्दा । अन्येभ्योऽहमधिक इति चित्तवृत्तिर्गवः । विद्याधनादिभिरस्य सदृशो भवामीति मतिर्मत्सरः । परेषामने जपध्यानादिप्रकाशनं दम्भः । भर्त्सनादिषु बुद्धिर्दपः । धनाद्यभिलाष इच्छा । शत्रुवधादिषु बुद्धिद्वेषः । अनुकूललाभेन बुद्धिस्वास्थ्यं सुखम् । तद्विपर्ययो दुःखम् । योषिदाद्यभिलाषः कामः । कामितार्थविघातजन्यो बुद्धिविक्षोभः क्रोधः । प्राप्तस्य धनस्य त्यागासहिष्णुत्वं लोभः । हितेष्वहितबुद्धिरहितेषु च हितबुद्धिर्मोहः । चित्तगततुष्टाभिशं० दीन शीतं न चोष्णं न सुखं न दुःखम् , चकारो वायोरपि समुच्चयार्थः । स्पष्टमन्यत् । न मानावमाने च, मानावमानौ । मानः शरीरपूनादौ संतोषस्तद्विपरीतोऽवमानस्तौ न भवतो विदुष इति शेषः । चकारो द्वैतदर्शनाभावार्थः । अत एव षडूमिवर्ज पसंख्याका ऊर्मयः संसारसमुद्रस्य कल्लोलाः प्राणबुद्धिशरीरधर्मा अशनायापिपासाशोकमोहनरादयस्तद्वर्नम् । तद्वर्जितत्वेऽपि विदुषः स्वसंबन्धित्वेन न प्रतीयन्त इत्यर्थः । निन्दागर्वमत्सराः । निन्दा स्वस्याविद्यमानदोषसंकीर्तनं परैः । यद्यप्येतद्वननं स्वेनानुष्ठातुमशक्यं तथाऽपि तत्कर्णपथप्रवेशेन तज्जविषादवर्जनमत्र लक्षितम् । अथ. वाऽऽस्येन परस्य विद्यमानाविद्यमानदोषसंकीर्तनम् । गर्वो विद्यानिमित्तात्स्वस्मिन्नधिकबुद्धिः।मत्सरो मनोमात्रवर्ती क्रोधस्तान्। दम्भदच्छाद्वेषसुखदुःखकामक्रोधलोभमोह * एतदुत्तरम् ' न शब्दं न स्पर्श न रूपं न रसं न गन्धं न च मनोऽप्येवम् ' इति प्रन्थः क. ख. घ. पुस्तकेष्वधिको दृश्यते। १ क. घ. 'नापमानं च । २ ख. "मानौ च। ३ घ. "त्सरा द। ४ घ. धरोषलो । ५ क. ख. घ. हमदह। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy