SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॐ तत्सद्ब्रह्मणे नमः। नादबिन्दूपनिषत् । नारायणविरचितदीपिकासमेता । प्रणवः पञ्चधाऽकारोकारमैबिन्दुनादयुक् । अन्त्यो नादस्त्वत्र वर्ण्यस्त्रिखण्डे नादबिन्दुनि ॥ १ ॥ नादो बिन्दुना लेशेन वर्ण्यते तेन नादबिन्दुस्तत्राऽऽद्यमक्षरत्रयं सार्धमात्रं हंसाभिधानपक्षिरूपकेण तावद्विपिनक्ति ॐ अकारो दक्षिणः पक्ष उकारस्तूत्तरः स्मृतः। ____मकारस्तस्य पुच्छं वा अर्धमात्रा शिरस्तथा ॥ १॥ ॐ अकार इति । पक्षः पतत्रं येन पक्षीत्युच्यते। पुच्छमन्त्यत्वात् । वै प्रसिद्धौ। शिर उत्तमाङ्गमूर्खलोकफलत्वात् ॥ १ ॥ ___ पादौ रजस्तमस्तस्य शरीरं सत्त्वमुच्यते । धर्मश्च दक्षिणं चक्षुरधर्मश्चोत्तरं स्मृतम् ॥ २॥ रजस्तमः पादावधस्त्वसामान्यात् । सत्त्वं शरीरं सर्वाधारत्वात् । धर्माधर्मों चक्षुषी गतिहेतुत्वात् ॥ २॥ सप्तलोकान्हसशरीरे विभज्य दर्शयति भूर्लोकः पादयोस्तस्य भुवोलोकस्तु जानुनोः । स्वर्लोकः कटिदेशे तु नाभिदेशे महर्जगत् ॥ ३ ॥ भूर्लोक इत्यादिना । औत्तराधर्यसाम्याभूरादीनां पादाद्याश्रयत्वम् । भुवोलोक इति । भुवश्च महाव्याहतरिति सकारस्य रुत्वरेफयोविधानाद्रुत्वपक्ष उत्वे गुणे च रूपम् । महर्जगन्महर्लोकः ॥ ३ ॥ जनलोकस्तु हृदये कण्ठदेशे तपस्ततः । ध्रुवोर्ललाटमध्ये तु सत्यलोको व्यवस्थितः ॥ ४॥ भ्रुवोर्ललाटमध्ये च सत्यलोकः । तुश्चार्थे ।। ४ ॥ Indain १ ग. 'रश्रोत्त' । २ ग. °नुनि । स्व । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy