SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॐ तत्सद्ब्रह्मणे नमः। तेजबिन्दूपनिषत् । नारायणविरचितदीपिकासमेता। तेजबिन्दुः परं ध्यानं विश्वातीतं हृदि स्थितम् । द्विखण्डमेकविंशं च तेजोभावफलं हि तत् ॥ १ ॥ प्रणवस्याकारोकारमकारबिन्दुनादानां ध्यानबिन्दौ ध्यानमुक्तम् । शक्तिशान्तयो. यानं वक्तुं तेजबिन्दूपनिषदारभ्यते ॐ तेजबिन्दुः परं ध्यानं विश्वातीतं हृदि स्थितम् । आणवं शांभवं शाक्तं स्थूलं सूक्ष्मं परं च यत् ॥ १॥ तेजबिन्दुरिति । तेजनं तेजः । घञ् । तिजेः क्षमायां सन् । अत्र निशाने घञ् । तस्य बिन्दुः कलैवंविधं परं ध्यानं भवति । विश्वातीतं तदगोचरत्वात् । आणवमणुः सूक्ष्मोपायः क्रियावती दीक्षा तज्जन्यमाणवम् । शांभवं गुरुप्रसादमात्रेण शंभुतापादकम् । शाक्तं गुरुशक्त्यैवोपायनिरपेक्षया जातम् । तदुक्तं महारत्ने "त्रिविधा सा भवेदीक्षा प्रथमा त्वाणवी परा। शाक्तेयी शांभवी चान्या सद्योमुक्तिविधायिनी ।। मन्त्रार्चनासनस्थानध्यानोपायादिभिः कृता । दीक्षा सा त्वाणवी प्रोक्ता यथाशास्त्रोक्तरूपिणी ।। सिद्धैः स्वशक्तिमालोक्य तया केवलया शिशोः । निरुपायं कृता दीक्षा शाक्यी परिकीर्तिता ॥ अभिसंधिं विना चायं शिष्ययोः परयोरपि । देशिकानुग्रहेणैव शिवताव्यक्तिकारिणी ।। सेयं तु शांभवी दीक्षा शिवादेशनकारिणी" इति ॥ तत्कृतम् । स्थूलं तद्विषयत्वात् । एवं सूक्ष्मम् । परं सर्वातीतफलम् ॥ १ ॥ १ . तेजोबि । २ ग. तेजोबि। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy