SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २५२ नारायणशंकरानन्दविरचितदीपिकाभ्यां समेता जातरूपधरो निद्वो निष्परिग्रहस्तत्त्वब्रह्ममार्गे सम्यक्संपुनः शुद्धमानसः प्राणसंधारणार्थं यथोक्तकाले विमुक्तो भैक्षमाचरनुदरपात्रेण लाभालाभौ समौ भूत्वा । शू न्यागारदेवगृहतृणकूटवल्मीकक्षमूलकुलालशालाग्निहोत्रना०दी० त्रयाणां दण्डानां समाहारः । पात्रादिः । जलपवित्रं जलशोधनवस्त्रम् । चकारात्तुण्डिकाचमसत्रिविष्टब्धकोपानत्कन्थाकौपीनस्नानशाट्युत्तरासङ्गानां ग्रहणम् । यथाजातरूपधरः । यथाजातो निर्वस्त्रस्तथारूपस्य धरो धर्ता । संपन्नः कुशलः । यथोक्तकाले “ निवृत्ते धूमसंचारे मन्दीभूते दिवाकरे " इत्यादिस्मृत्युक्ते काले । विमुक्तोऽप्रतिबन्धः । अथवा जीवन्मुक्तः । तस्य स्थानान्याहशं दी जातरूपधरो यादृशं जातमात्रस्वरूपं तद्धारयतीति यथाजातरूपधरो दिगम्बर इत्यर्थः । उत्तरमार्गे गच्छेदिति शेषः । ततः संन्यासोऽ(सा)ध्वर्युणा विनिवारितः श्रवणादिसिद्ध्यर्थं लोकानुग्रहार्थमेवं भूयादित्याह । निद्वो द्वंद्वं शीतोष्णं सुखदुःखादि तन्निर्गत यस्मात्स निर्द्वद्वः शीतोष्णादिसहिष्णुः । निर्ग्रन्थ इति वा पाठः । निर्गता ग्रन्था अर्थशास्त्रादिरूपा यस्मात्सः । उपनिषत्संबन्धहीनशास्त्रतात्पर्यशून्य इत्यर्थः । निष्परिग्रहो निर्गतः कन्थाकौपीनाध्यात्मपुस्तकादिव्यतिरिक्तश्च परिग्रहो यस्मात्स निष्पारिग्रहः । तत्त्वब्रह्ममार्गे तत्त्वमबाधितं रूपं तदेव ब्रह्म देशकालवस्तुपरिच्छेदशून्यं तस्य मार्गो ज्ञानं तस्मिन्ब्रह्ममार्गे सम्यक्संशयविपर्ययराहित्येन संपन्नः संपत्तिं प्राप्तः । ब्रह्मसाक्षात्कारवानित्यर्थः । तत्र हेतुमाह-शुद्धमानसः, मनसो मलाः कामक्रोधादयस्तैर्विमुक्तं विशुद्धं संकल्परहितं मानसं यस्य स शुद्धमानसः । प्राणसंधारणार्थम्, यद्यप्यन्नमयः प्राणस्तथाऽपि मनसोऽन्नमयत्वादन्नाभावेन तदपैति तदपायेन प्राणोऽप्यपैति । अपि च प्राणेन जग्धमन्नमन्येषां तृप्तिकारणं प्रसिद्धमतः प्राणस्य पञ्चवृत्तेः सम्यग्धारणार्थम् । यथोक्तकाले विधूमत्वाद्युपलक्षित आ सायं प्रदक्षिणेत्यादिना मैत्रायणीश्रुत्युक्तेऽवसरे । यथोक्तकाल इत्युपलक्षणं यथोक्तप्रकारेणापि । अविमुक्त ईश्वरोऽहमस्मीति मन्यमानः । विमुक्त इति वा पदच्छेदः । तदा निर्गतनिःशेषबन्धन इति व्याख्येयम् । भैक्षं माधुकरादिरूपमाचरन्नाचरेत् । नियमोऽयम् । भैक्षपात्रमाह-उदरपात्रणोदरमेव पात्रं तेन । भिक्षायामानीतायां मुखं व्याददीतेत्यर्थः । तत्र भिक्षाया लाभालाभयोर्हर्षशोको न करणीयौ । भिक्षालाभालाभयोस्तच्छृन्यत्वेन समौ भूत्वा समावनुभूयाऽऽचरेदित्यन्वयः। इदानी परमहंसस्य स्थलान्याह-शून्यागारं देवगृहं विष्णुशिवादिदेवायतनम् । तृणकूटं कुतश्चिन्निमित्ताज्जातस्तृणसमूहः । वल्मीकं पिपीलिकाभिः क्रियमाणो मृत्समुच्चयः। वृक्षमूलं वटाश्वत्थादिमूलम् । कुलालशाला भाण्डनिक्षेपस्थानम् । अग्निहोत्रमग्निगृहम् । १ ख. घ. निर्ग्रन्थो । २ ख. ग. ङ. भैक्ष्यमा । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy