SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २२६ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नारायणविरचितदीपिकासमेता ॥। ११ ॥ ॐ टां योऽसाविन्द्रियात्मा गोपालः टां तत्सद्भूर्भुवः स्वस्तस्मै वै नमो नमः ||१२|| ॐ टां योऽसौ भूतात्मा गोपालः टां तत्सद्भूर्भुवः स्वस्तस्मै वै नमो नमः || १३ | ॐ टां योऽसावृत्तमपुरुषो गोपालः टां तत्सद्भूर्भुवः स्वस्तस्मै वै नमो नमः ।। १४ ।। ॐ टां योऽसौ परब्रह्मगोपालः टां तत्सद्भूर्भुवः स्वस्तस्मै वै नमो नमः ॥ १५ ॥ ॐ टां योऽसौ सर्वभूतात्मा गोपालः टां तत्सद्भूर्भुवः स्वस्तस्मै वै नमो नमः ॥ १६ ॥ ॐ टां योऽसौ जाग्रत्स्वमसुषुप्तिमतीत्य तुर्यातीतो गोपालः टां तत्सद्भूर्भुवः स्वस्तस्मै वै नमो नमः ॥ १७ ॥ ॐ टां प्राणात्मने टां तत्सद्भूर्भुवः स्वस्तस्मै प्राणात्मने नमो नम इत्याद्यपर्यायः । टान्तं चन्द्रमनुस्मरन्निति टकारस्याङ्गन्यासे चन्द्ररूपत्वेनोक्तत्वादृकारश्चन्द्रबीजं तेनाssदीर्घयतेन क्रमेण सर्वत्र संपुटा मन्त्राः । ततः परं तत्सदिति ब्रह्मवाचक शब्दौ । ततो भूराद्यास्तिस्रो व्याहृतयः । ततस्तस्मै संपुटितमन्त्रोक्ताय नमो नम आदराय द्विरुक्तिः । तत्सदादि सप्तदशस्वपि तुल्यम् । एवं च गोविन्दादिविष्णुमन्त्राः पञ्चभिः प्राणादिमन्त्रैर्ग्रथिताः कार्याः । ग्रथनलक्षणं तु—“मन्त्रार्णान्तरितान्कुर्यान्नामवर्णान्यथाविधि । ग्रथनं तद्विजानीयात्प्रशस्तं शान्तिकर्मणि” इति । अत्र मन्त्रार्णानां नामवर्णग्रहणं पत्राणामपि परस्परग्रथकानामुपलक्षणम् । तत्र क्रमः प्राणापानसमानोदानव्यानानां प्रथमतृतीयपञ्चमसप्तमनवमा मन्त्रा एषु तस्मै परतो वैशब्दो नास्ति । कृष्णगोविन्दगोपीजनवल्लभानां चतुर्थ्यन्तानां द्वितीयः । कृष्णप्रद्युम्नानिरुद्धानां चतुर्थ्यन्तानां चतुर्थः । कृष्णरामयोश्चतुर्थ्यन्तयोः षष्ठः । श्रीकृ ष्णदेवकीनन्दनयोस्तादृशयोरष्टमः । गोपालनिजस्वरूपयोस्तादृशयोदशमः । ततः सप्त मन्त्राः सप्तगोपालानां प्रथमान्तानां तत्र प्रेयानात्मा गोपाल एकादशः । इन्द्रियात्मा गोपालो द्वादशः । भूतात्मगोपालस्त्रयोदशः । उत्तमपुरुषो गोपालश्चतुर्दशः । परब्रह्मगोपालः पञ्चदशः । सर्वभूतात्मा गोपालः षोडशः । जाग्रत्स्वप्नसुषुप्तमतीत्य तुर्यातीतो गोपालः सप्तदशः । एषां सप्तानामों टां योऽसाविति प्रथमतः टां तत्सद्भूर्भुवः स्वस्तस्मै वै नमो नम इत्यन्ते पठनीयम् ॥ एतन्मन्त्रस्तुत्यस्य गोपालस्य पारमार्थिकं रूपं मन्त्रेणाऽऽह— एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ॥ एक इति । प्रागेव व्याख्यातोऽहं कृष्णाभिधो नारायणः | एक इत्यादिरष्टादशः For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy