________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२२२ नारायणविरचितदीपिकासमेता
मधुराप्रतिष्ठितभवत्पीठे किमातपत्रमित्यपेक्षायामुक्तम् । आतपत्रं ब्रह्मलोकं ब्रह्मलोकः स्मृतं स च ब्रह्मलोको ममोर्ध्वचरणस्तृतीयपदम् । ब्रह्मलोकमिति लिङ्गव्यत्ययः । मयोद्धचरणं स्मृतमिति पाठे मयोर्ध्वचरणत्वेन स्मृतं संभावितमित्यर्थः ।
श्रीवत्सलाञ्छनं हृत्स्थमित्युक्तं हृदि च ब्रह्मामृतं परमस्ति निर्वचनं. चास्ति हृद्ययमात्मेति हृदयं तेन संस्थानत्वाच्छवित्सो लाञ्छनं शुक्लावर्तो हृत्स्थो भृगुचरणस्पर्शनिमितः सलक्षणो ब्रह्मत्वेनोपास्य इत्याह
श्रीवत्सं च स्वरूपं च वर्तते लाञ्छनैः सह ।।
श्रीवत्सलाञ्छनं तस्मात्कथ्यते ब्रह्मवादिभिः ॥ श्रीवत्सं चेति । स्वरूपं ब्रह्म लाञ्छनैर्लक्षणैर्हत्स्थत्वोज्ज्वलत्वादिभिः सहितं वर्तते तस्माच्छ्रीवत्सलाञ्छनं ब्रह्मवादिभिर्वेदवादिभिः कथ्यते । चित्स्वरूपं चेति पाठे स्पष्टम् । कौस्तुभमणौ सर्वतेजोदृष्टिमाह
येन सूर्याग्निवाक्चन्द्रतेजसा स्वस्वरूपिणा।
वर्तते कौस्तुभमणिं तं वदन्तीशमानिनः॥ येनेति । येन कारणेन सूर्याग्निवाणीचन्द्रतेजसा स्वस्वरूपिणा ब्रह्मतेजसा च वर्तते तेन मणितेजोरूपमीशमानिनः परमेश्वरभक्तं वदन्ति ब्रुवते । कौस्तुभस्य स्वरूपते. जस्त्व संमतिः सात्वततत्रे
"आत्मानमस्य जगतो निर्लेपमगुणात्मकम् ।
दधार कौस्तुभमणि निर्गुणं भगवान्हरिः" इति ॥ 'चैत्यस्य तत्त्वममलं मणिमस्य कण्ठे' इति च परमहंससंहितायाम् । कौं पृथिव्यां स्तोभते रुणद्धि सर्वतेजांसि कौस्तुभ इति विग्रहः । स्तुभ निरोधने । वाक्तेजस्त्वम् । 'तेजोमयी वाक् ' इति श्रुतेः। गुणत्रयाहंकारभूतपञ्चकत्वेन शङ्ख उपास्य इत्याह
सत्त्वं रजस्तम इति अहंकारश्चतुर्विधः ।
पञ्चभूतात्मकः शङ्कः परोरजसि संस्थितः॥ सत्त्वमिति । चतुर्विध इति । वैकारिको देवतामनोयोनिः । तैजस इन्द्रिययोनिः। तामसो भूतादिः पञ्चभूतयोनिः। न किंचिदहमस्मि सर्वमहमस्मीति वा प्रपञ्चातीतश्चतुर्थः । यथा भगवतोक्तम्- 'अहं सर्वस्य जगतः प्रभवः प्रलयस्तथा' इत्यादि । पञ्चभूतात्मक इत्यनेन पाञ्चजन्यप्राज्ञव्युत्पत्तिर्दर्शिता । परोरजसि रजःपरे श्रीकृष्णकरे संश्रितः । मनोदृष्ट्या चक्रमुपास्यमित्याह
चलस्वरूपमत्यन्तं मनश्चक्रं निगद्यते ।
१ घ. सं चित्स्वरू।
For Private And Personal