________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोपालपूर्वतापनीयोपनिषत् ।
अनङ्गरूपाऽऽद्याऽनङ्गमदनाऽनङ्गमन्मथा । अनङ्गकुसुमा पश्चादनङ्गमदनातुरा ॥ अनङ्गशिशिराऽनङ्गमेखलाऽनङ्गदीपिका । लीलाकमलधारिण्यः स्मेरवक्त्रानुशोभिताः ॥ बहिः षोडशपत्रेषु पूज्याः षोडश शक्तयः । युवतिप्रतिलम्भाऽन्या ज्योत्स्ना सुधूर्मदा द्रवा ॥ सुरता वारुणी राका कान्तिः सौदामनी पुनः । कामच्छत्री चन्द्रलेखा मुकी स्यान्मदना पुनः ॥ ज्योतिर्मायावती ताः स्युः कहारविकसत्कराः। स्मेरवक्त्रा युवतयो मदविभ्रममन्थराः ॥ दलागेषु पुनः पूज्याः स्मरस्य परिचारकाः । शोको मोहो विलासोऽन्यो विभ्रमो मदनातुरः ॥ अपत्रपो युवा कामी भूतपुष्पो रतिप्रियः । ग्रीष्मस्तपान्त ऊर्भोऽन्यो हेमन्तः शिशिरो मदः ॥ इक्षुकार्मुकपुष्पेषुधरा रक्ताः सुपूजिताः । अपराङ्गनिषङ्गाढ्या वनितासक्तमानसाः ॥ रतिप्रियानष्टदिक्षु यजेदष्टौ विशिष्टधीः । परभृत्सारसौ पश्चाच्छुकमेघाह्वयौ पुनः ।। अपाङ्गकविलासौ द्वौ हावभावौ प्रकीर्तिताः । चतुरस्रस्य कोणेषु पूज्यास्तत्परिचारिकाः ॥ माधवी मालती पश्चाद्धीरणाक्षी मदोत्कटा । सितचामरधारिण्यः सर्वाभरणभूषिताः ॥ बाह्ये लोकेश्वरान्पश्चात्तदत्राण्यर्चयेत्क्रमात् । इत्थं यो भजते देवं सुगन्धिकुसुमादिभिः ।
स भवेलब्धसौभाग्यो लक्ष्म्या जितधनेश्वरः" इति ॥ एकाक्षरस्य ककारो बीजमीकारः शक्तिः । अयं मनुर्द्विरूपो विष्णुरूपः कामरू. पश्च । एवमादयो मनवः संक्रन्दननारदसंमोहनादिभिरभ्यस्यन्ते भूतिकामैः । यथावदुक्तविधिना ॥
तदेतस्य स्वरूपार्थ वाचा वेदयति ते पप्रच्छुस्तदु होवाच ब्राह्मणः, तदिति । तस्मात्कारणादेतस्य कृष्णस्य स्वरूपार्थं स्वरूपं मन्त्रस्तदर्थ वाचा वचने
For Private And Personal