SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोपालपूर्वतापनीयोपनिषत् । १८७ पङ्कजमध्यगं रत्नखचितं यत्पङ्कजपीठं तत्कर्णिकायामुपविष्टम् । पीठदेवतास्तु नारसिंहोत्तर उक्तास्तत एव बोद्धव्याः। कालिन्दीजलकल्लोलासङ्गिमारुतसेवितम् । चिन्तयंश्चेतसा कृष्णं मुक्तो भवति संसृतेः, इति कालिन्दी यमुना तस्या जलं तस्य कल्लोलास्तरङ्गास्तैरासङ्गी संबद्धो यो मारुतस्तेन सेवितम् । चिन्तयन्ध्यायंश्चेतसा मनसा संसृतेः संसारात् । इतिशब्दः श्लोकसमाप्तौ । तस्य पुना रसनभजनभूमीन्दुसंपातः तस्य पुना रसनभजनभूमीन्दुसंपात इति । तस्य कृष्णस्य पुनरपि रसनं शब्दन मन्त्रखरूपं भजनं सेवनं पूजादि ताम्यां सह भूमीन्दुसंपात उच्यते । भूम्यामिन्दोरिव संपातो यथा जलादाविन्दोः संपातः प्रतिबिम्बमेवं भूम्यां तस्य संपात उद्भव उच्यत इत्यर्थः । तदुक्तम्-" एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ” इति । तत्र रसनमाह कामादि कृष्णायेत्येकं पदं गोविन्दायेति द्वितीयं गोपीजनेति तृतीयं वल्भार्येति तुरीयं स्वाहेति पञ्चममिति पञ्चपदी प्रजपन्पञ्चाङ्गं कामादि कृष्णायेत्येकं पदमिति । कामो वक्ष्यमाणं कामवीजं तदादि कृष्णायति चतुर्थ्यन्तमेकं पदमित्यर्थः । एवं चत्वारि चतुरक्षराणि पञ्चमं ब्यक्षरम् । इति पञ्चपदीमेवरूपां पञ्चपदी प्रजपन्पञ्चाङ्गं कुर्यादिति शेषः। पञ्चाङ्गानि हृदयशिरःशिखाकवचास्त्राणि चतुरक्षराणि चत्वार्यङ्गानि पञ्चमं व्यक्षरमेतत्पञ्चाङ्गं पञ्चरूपेणोपास्यमित्याह-. द्यावाभूमी सूर्याचन्द्रमसौ सानी । द्यावाभूमी सूर्याचन्द्रमसौ सानी इति । क्लीं कृष्णाय दिवा(व्या)त्मने हृदयाय नमः । गोविन्दाय भूम्यात्मने शिरसे स्वाहा । गोपीजनसूर्यात्मने शिखायै वषट् । वल्लभाय चन्द्रमसा(म आ)त्मने कवचाय हुम् । स्वाहासाग्न्यात्मनेऽस्त्राय फट् । इत्यादिप्रयोगः। पश्चात्मदृष्टेः फलमाह तद्रूपतया ब्रह्म संपद्यते ब्रह्म संपद्यत इति ॥२॥ तद्रूपतयेति । द्यावाभूम्यादिरूपतया तद्रूपो भूत्वा विराड्भावमापद्य ब्रह्म संपद्यते ब्रह्म भवति । द्विरुक्तिः खण्डसमाप्त्यर्था । अस्य मन्त्रस्य नारद ऋषिर्गायत्री छन्दः For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy