SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॐ तत्सद्ब्रह्मणे नमः। अथर्वशिरउपनिषत्। नारायणविरचितदीपिकासमेता । ॐ भद्रं कर्णेभिरिति शान्तिः। ॐ देवा ह वै स्वर्ग लोकमायंस्ते देवा रुद्रमपृच्छन्को भवानिति सोऽब्रवीदहमेकः प्रथममीसीद्वामि च भविष्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्त इति सोऽन्तरादन्तरं प्राविशदिशो व्यन्तरं प्राविशत्सोऽहं नित्यानित्यो व्यक्ताव्यक्तो ब्रह्माब्रह्माहं प्राञ्चः प्रत्यञ्चोऽहं दक्षिणाञ्च रुद्राध्यायोऽथर्वशिरः सप्तखण्डो ह्यथर्वणः । शिरो भित्त्वा यतो जातं ततोऽथर्वशिरः स्मृतम् ॥ १ ॥ योगमारूढस्य महत्पदमारुरुक्षोर्मुनेर्देवादिकृतविघ्नसंभावनाऽगम्यार्थोपदेशापेक्षा च स्यादतो विघ्ननिवृत्तय उपदेशाय च रुद्रस्तुतिरारभ्यते । किं च योगोऽपि तत्प्रसाद विना न सिध्यति । यथा स्मृतिः "न सिध्यन्ति महायोगा मदीयाराधनं विना । मत्प्रसादविहीनानां मन्निन्दापरचेतसाम् । पशूनां पाशबद्धानां योगः क्लेशाय जायते । संत्यज्याऽऽज्ञां शिवेनोक्तां पूजां संत्यज्य मामिकाम्" इति । तत्प्रसादे च निर्विघ्नं सिद्धिरुक्ता "युञ्जतः सततं देवि सर्वलोकमयं शिवम् । मद्ध्यानासक्तचित्तस्य तुष्यन्ते सर्व देवताः । तन्मां संपूज्य युञ्जीत मत्प्रसादेन खेचरी । अन्यथा क्लिश्यतेऽत्यर्थं न सिद्धिर्जन्मकोटिभिः” इति । अमृतबिन्दौ रुद्राराधनतत्पर इति तदाराधनस्य योगसिद्ध्यङ्गत्वेनोक्तत्वाच्च । अतः सिद्धिमिच्छता रुद्रोऽवश्यं सेव्य इति रुद्रस्तुतिरारभ्यते । ॐ देवा इति । आख्यायिका विद्यास्तुत्यर्था । देवा इन्द्रियाणीन्द्रादयो वा । स्वर्ग सत्त्ववृत्ति १ ख. 'स्ते रु'। २ क. च मासं वः । ३ क. च. 'दिशोऽन्त' । ४ ख. शिराः स । ५ छ. तथा। ६ ज. "थं सि । ७ ज. °द्धिन ज । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy