________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१७० शंकरानन्दविरचितदीपिकासमेताबन्धकर्मणि । भवतीत्यत्र वक्ष्यमाणे च वाक्यचतुष्टये शेषोऽवगन्तव्यः । आपः । स्पष्टम् । पिण्डीकरणे विशिथिलावयवस्य कठिनस्य बन्धनकर्मणि । तेजः स्पष्टम् । रूपदर्शने रूपस्य शुक्ललोहितकृष्णादेर्दर्शने चक्षुरादीनां साक्षात्कारकरणकर्मणि । वायुः । स्पष्टम् । व्यूहन इतस्ततो नयनकर्मणि । आकाशम् । स्पष्टम् । अवकाशप्रदानेऽवकाशप्रदानकर्मणि । पृथक्, पृथिव्यादीनां व्यापारा उक्तेन प्रकारेण वि. भिन्नाः। अनेन व्यापारकथनेन शरीरस्यापि व्यापारपञ्चकस्योक्तत्वात्पञ्चसु वर्तमानमित्येतदपि व्याख्यातमर्थात् । इदानी पञ्चसु वर्तमानमित्येतदेव व्याख्यातुं विनाऽपि प्रश्नमुत्तरमाह
चक्षुःश्रोत्रे। चक्षुःश्रोत्रे । चल रूपग्राहकमिन्द्रियं श्रोत्रं च शब्दग्राहकम् । इन्द्रियाणां प्राधान्यादेतयोरेवेह ग्रहणेन ज्ञानकर्मेन्द्रियाणां ग्रहणं सिद्धं भवति । इदानीमुपलक्षणन्यायेन केषांचिदिन्द्रियाणां विषयान्व्यापारांश्चाऽऽह
चक्षुषी रूपे जिह्वोपस्थश्वाऽऽनन्दश्चापाने चोत्सर्गः, चक्षुषी चक्षुर्गोलकरूपे तदुपलक्षितं चक्षुरिन्द्रियमित्यर्थः । रूपे रूपविषये व्यापारं कुरुत इति शेषः । जिह्वा रसनेन्द्रियं रसे व्यापारं कुरुत इति शेषः । उपस्थश्च प्रज. ननेन्द्रियमपि । चकारात्पाय्विन्द्रियमपि । आनन्द आनन्दहेतुः । अपाने च, अपाने कर्मण्यप्यधोनयनरूपे पायुः । उत्सर्गो मलमूत्रोत्सर्गहेतुः । चकारादपाने चेत्यत्र पठितादपानोत्सर्गयोरुक्तयोः कर्मणोः समुच्चयः ।। इदानी प्रसङ्गादन्तरेन्द्रियस्य द्विधाभिन्नस्य कर्माऽऽह
बुद्ध्या बुध्यति मनसा संकल्पयति वाचा वदति । बुद्ध्या निश्चयरूपिण्या । बुध्यति बुध्यत इदमित्यमिति निश्चिनोति । मनसा संकल्पयति । संकल्पविकल्पात्मकं मन इदं भूयादिति संकल्पं करोति । वाचा वागिन्द्रियेण वदति वदनव्यवहारं करोति । उपलक्षणमेतत्पद्भयां गच्छति पाणिम्यामादत्ते त्वचा स्पृशति घ्राणेन जिप्रति श्रोत्रेण शृणोतीत्येतेषामनुक्तानामपि । पूर्ववत्पदान्तरमादत्ते व्याकर्तुम्
षडाश्रयमिति कस्मात्, षडाश्रयं प्रतीकमिदम् । इतिः प्रतीकार्थः । कस्मात् । व्याख्यातम् । षड्सलाभादित्युत्तरमाह
मधुरामललवणतिक्तकदुकषायरसान्विन्दते ।। मधुरामललवणतिक्तकटुकषायरसान् । कटुमरीच्यादेः । मधुरो दुग्धादेः । अम्लो जम्बीरादेः । लवणः सैन्धवादेः । तिक्तो निम्बादेः । कषायो हरीतक्यादेः ।
For Private And Personal