________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नारायणविरचितदीपिकासमेतामेदे' इत्युक्तम् । अञ्जलिग्रहणं वर्तते । अनियतमिति । याज्ञवल्क्येन तु नियम उक्तः- “सप्तैव तु पुरीषस्य चत्वारो मूत्रमेव च" इति । अञ्जलय इति वर्तते तत्तु प्रायोभिप्रायेण । निष्कर्षे क्रियमाणे तु नास्ति नियमः । अनियमे हेतुराहारपरिमाणादिति । तस्मिन्नधिकेऽधिकं न्यूने न्यूनमित्यर्थः ।
पैप्पलादं मोक्षशास्त्रं परिसमाप्तं पैप्पलादं मोक्षशास्त्रं परिसमा. तम् ॥ ११॥
ॐ भद्रं कर्णेभिः सह नाविति शान्तिः ॥
इति गर्मोपनिषत्समाप्ता ॥ १०॥ पिप्पलादेन प्रोक्तं पैप्पलादम् । द्विरुक्तिः समाप्त्यर्था । अत्र प्रसङ्गात्पलादिज्ञानार्थ मागधपरिभाषोच्यते । तद्यथा-"न मानेन विना युक्तिव्याणां जायते क्वचित् ।
अतः प्रयोगकार्यार्थ मानमत्रोच्यते मया ॥ त्रसरेणुर्बुधैः प्रोक्तस्त्रिंशता परमाणुभिः । त्रसरेणुस्तु पर्यायनाम्ना वंशी निगद्यते ॥ जालान्तरगतैः सूर्यकरैवंशी विलोक्यते । षड्वंशीभिर्मरीचिः स्यात्ताभिः षड्भिश्च राजिका ॥ तिसूभी राजिकाभिश्च सर्षपः प्रोच्यते बुधैः । यवोऽष्टसर्षपैः प्रोक्तो गुञ्जा स्यात्तच्चतुष्टयम् ॥ षड्भिस्तु रक्तिकाभिः स्यान्माषको हेमधानको । माषैश्चतुभिः शाणः स्याद्धरेणुः स निगद्यते ।। टङ्कः स एव कथितस्तद्वयं कोल उच्यते । क्षुद्रोऽसौ वटकश्चैव ईक्षणः स निगद्यते ॥ कोलद्वयं च कर्षः स्यात्स प्रोक्तः पाणिनामिकः । अक्षः पिचुः पाणितलं किंचित्पाणिश्च तिन्दुकम् ॥ बिडालपदकं चैव तथा षोडशिका मता। करमध्यो हंसपदं सुवर्णं कवलग्रहः ॥ औदुम्बरं च पर्यायैः कर्ष एव निगद्यते । स्यात्कर्षाभ्यामर्धपलं शुक्तिरष्टमिता तथा ॥ शुक्तिभ्यां च पलं ज्ञेयं मुष्टिरानं चतुर्थिका । प्रकुञ्चं षोडशी बिल्वं पलमेवात्र कीर्तितम् ।। पलाभ्यां प्रसूतिज्ञेया प्रसृतिश्च निगद्यते ।। प्रसृतिभ्यामञ्जलिः स्यात्कुडवोऽर्धशरावकः ॥
For Private And Personal