SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अथर्वशिखोपनिषत् । तानि करणं सर्वमैश्वर्य संपन्नं शिवमाकाशं मध्येध्रुवस्थम् । ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरः शिव एव च । पञ्चधा पञ्चदैवत्यः प्रणवः परिपठ्यते । तत्राधिकं क्षणमेकमास्थाय ऋतुशतस्यापि फलमवामोति कृत्स्नमोंकारगतं च सर्वज्ञानेन योगध्यानानां शिव एको ध्येयः शिवंकरः सर्वमन्यत्परित्यज्यैतामधीत्य द्विजो गर्भवासान्मुच्यते गर्भवासान्मुच्यत इति ॥ २॥ __इत्यथर्ववेदेऽथर्वशिखोपनिषत्समाप्ता ॥ ७ ॥ पुनः किं किमीशा प्रयुक्तमत आह । करणमिति । करणं साधकतममुपायभूतं सर्वमीशा प्रयुक्तमित्यर्थः । स हि प्रथममुपायबोधकः । ऐश्वर्य प्रभुशक्तिः । संपन्न कार्यमात्रम् । निदर्शनाय सर्वकार्यमूर्धन्यमाकाशमाह । शिवामति । शिवं निर्मलम् । मध्ये सर्वस्यान्तर्बुवमेकरूपेण तिष्ठतीति मध्येध्रुवस्थमाकाशमीशा प्रयुक्तं तच्च वाय्वादीनामुपलक्षणम् । यद्वा संपन्नादिचतुष्टयं शिवस्य विशेषणम् । जन्यत्वशङ्कानिवृत्तये नादान्तग्रहणेन सूचितां प्रणवस्य पञ्चकूटतामाह । ब्रह्मति । पञ्चधाऽकारादिरूपेण । पञ्चात्मकस्य ज्ञाने फलमाह । तत्रेति । यत्नाधिक्ये फलाधिक्यमिति न्यायात् । तेनावान्तरवस्तुशक्तेरनियम्यत्वात्क्रतुशतस्य फलं ततोऽप्यधिकं च प्राप्नोति । कृत्स्नमोंकारगतं चेति । कृत्स्नमोंकारपादादिकमोंकारगतं च ध्यात्वा क्रतुशतस्यापि फलमानोतीत्यनुषज्यते । परमोपदेशमाह। सर्वेति । सर्वमन्यत्परित्यज्येति प्राक्तनेन संबध्यते । ईश एव परमो ध्येय इति चतुर्थमुत्तरमुपसंहृतम् । अध्ययनफलमाह । एतामिति । एतामुपनिषदमप्यथर्वशिखासंज्ञाम् । द्विज इति शूद्रनिरासः । द्विरुक्तिः समाप्त्यर्थेतिशब्दश्च ॥ २॥ नारायणेन रचिता श्रुतिमात्रोपजीविना । अस्पष्टपदवाक्यानां दीपिकाऽथर्वशैखिके ॥ १॥ इति नारायणविरचिताऽथर्ववेदान्तर्गतार्वशिखोपनिषद्दीपिका समाप्ता ॥ १ ॥ १ फ. "ग्नं शुभमा । २ ग. ज्ञानयो । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy