SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १४८ नारायणविरचितदीपिकासमेतायोदित्यर्थः । तत्र नाभौ सुषुम्ना मध्यनाडी बहुभिर्दासप्ततिसहस्रैर्वृता मूलं तु तस्याः कन्दमध्यम् । कन्दस्तु— "गुदध्वजान्तरे कन्दमुत्सेधाद्व्यङ्गुलं विदुः" इत्युक्तः । .. "गुदमेट्रान्तरे यद्वै वेणुकन्दं तदुच्यते” इति च ॥ . वेणुः सुषुम्ना सा च षट्चक्रवती मूलाधारदण्डान्तरविवरगता मूर्धानं भित्त्वा ब्रह्मलोकान्तं निर्गता। यच्छान्दोग्ये- "शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका" इति । नाभेरूवं तु चक्रानुक्रमेण धारणा मूर्धान्तं द्रष्टव्या । उक्तं च योगयाज्ञवल्क्ये "मर्मस्थानानि सिद्धयर्थं शरीरे योगक्षेमयोः । तामि सर्वाणि वक्ष्यामि यथावच्छृणु सुव्रते ॥ पादाङ्गुष्ठौ च गुल्फी च जङ्घामध्यौ तथैव च । धृत्योर्मूलं च जान्वोश्च मध्ये चोरूभयस्य च ।। पायुमूलं ततः पश्चान्मध्यदेहश्च मेळूकम् । नाभिश्च हृदयं गार्गि कण्ठरूपस्तथैव च ॥ तालुमूलं च नासाया मूलं चाक्ष्णोश्च मण्डले । भ्रुवोर्मध्यं ललाटं च मूर्धा च मुनिसत्तमे ।। मर्मस्थानानि चैतानि" इति । एतेषु च तत्रैव धारणोक्ता "स्थानेष्वेतेषु मनसा वायुमारोप्य धारयेत् । स्थानात्स्थानं समुत्कृप्य प्रत्याहारं प्रकुर्वतः ॥ सर्वे रोगाश्च नश्यन्ति योगाः सिध्यन्ति तस्य वै" इति । प्रपञ्चसारेऽपि अङ्गुष्ठगुल्फजानुद्वययोनिगुदं च सीवनी मेम् । नाभिर्हृदयं ग्रीवा सलम्बिकाग्रं तथैव नासा च । भ्रूमध्यललाटसुषुम्नार्धाग्रं द्वादशान्तमित्येव ॥ उत्क्रान्तौ परकायप्रवेशने चाऽऽगतौ पुनः स्वप्ने । स्थानानि धारणायाः प्रोक्तानि मरुत्प्रयोगविधिनिपुणैः” इति ॥ अङ्गुष्ठादूर्ध्वमारोहे फलमिदमुक्तम् । मूर्भोऽङ्गुष्ठपर्यन्तमवरोहेऽपि च धारणानां फलमुक्तम् १ख, सुव्रत । । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy