________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
९ नवमः खण्डः] कौषीतक्युपनिषत् । ११४-३६ एतस्य द्वेष्याश्च सर्वे निखिलाः सपुत्रपशुबान्धवा इत्यर्थः । परिनियन्ते सर्वतो निधनं गच्छन्ति ॥ ८॥
अथातो निःश्रेयसादानं सर्वा ह वै देवता अहंश्रेयसे विवदमाना। अथ परिमरगुणोपासनानन्तरम् । अतो यस्मात्फलान्तरापेक्षाऽस्मात्कारणानिःश्रेयसादानं निःश्रेयसं सर्वस्मादुत्कर्षरूपो गुणो मोक्षविशेषस्तद्गुणविशिष्टस्य प्राणस्याssदानं स्वीकारः क्रियत इति शेषः । तत्र प्राणो निःश्रेयसमिति नाविचार्य स्नेहादिना स्वीकृतं किंतु महता संघर्षेण विचारितम् । एतदर्थमाख्यायिकामाह-सर्वा निखिला ह किल वै प्रसिद्धा देवता देवताशब्दवाच्या वागाद्याः । अहंश्रेयसेऽहंवादेनाऽऽत्मनः श्रेय आधिक्यं तदर्थ विवदमाना मामन्तरेण का भवत्य इति स्वव्यतिरिक्ताः परास्तिरस्कुर्वत्य इत्यर्थः।
स्वयं निश्चयं कर्तुमशक्काः प्रजापतिं पितरमेत्योचुर्भगवन्को नः श्रेष्ठ इति । स हि प्राणे श्रेष्ठ्यं जानन्नपि स्वसुतानां दुःखं दातुमशक्तोऽमुमुपायं प्रत्यपद्यत । यस्मिन्व उक्रान्त इदं शरीरं पापिष्ठं शव समानं भविष्यति स वः श्रेष्ठ इत्युक्ते तथैव खत्रैष्ठ्यनिर्धारणार्थ क्रमेणोत्क्रमणं कृतवत्य इत्याह
अस्माच्छरीरादुच्चक्रमुस्तदारुभूतं शिश्येऽथैनद्वाक्प्रविवेश तद्वाचा वदच्छिश्य एव । अस्मात्प्रत्यक्षाच्छरीरान्मनुष्यादिदेहादुच्चक्रमुर्वागादयः क्रमेणोत्क्रमणं चक्रुः । तत्स्थूलशरीरं वागादीनां प्रत्येकमुत्क्रमणे वदनादिव्यापारमकुर्वत्स्थितं यदा पुनर्मुख्यप्राण उत्क्रान्तस्तदा दारुभूतं चिताकाष्ठसमानमस्पृश्यं सर्वव्यापारशून्यं शिश्ये शयनं कृतवत् । एवं व्यतिरेकेण निश्चये संपन्नेऽप्यतिस्पर्धावशादन्वयमन्तरेण निश्चयमनधिगच्छन्तोऽन्वयमप्यनुष्ठितवन्त इत्याह-अथ शरीरस्य दारुभूतस्य शयनानन्तरमेतच्छरीरं वाग्वागिन्द्रियं प्रविवेश प्रवेशं कृतवत् । तच्छरीरं वाचा वागिन्द्रियेण वदद्वाग्व्यापारं कुर्वच्छिश्य एव शयनं कृतवदेव न तूस्थितवत् ॥
वाक्प्रवेशानन्तरं चक्षुरिन्द्रियं प्रविष्टं ततश्चावलोकनं वदनं चाभूत् । अनन्तरं श्रोत्रेन्द्रियं प्रविष्टं ततश्च श्रवणावलोकनवदनान्यभूवन् । अनन्तरं मनः प्रविष्टं ततश्च ध्यानश्रणावलोकनवदनान्यासन्न तु शरीरमुत्थितवदित्येतत्पर्यायत्रयेणाऽऽह
अथैनच्चक्षुः प्रविवेश तद्वाचा वदच्चक्षुषा पश्यच्छिश्य एवाथैनच्छ्रोत्रं प्रविवेश तद्वाचा वदच्चक्षुषा पश्यच्छ्रोत्रेण शृण्वच्छिश्य एवाथैनन्मनः प्रविवेश तद्वाचा वदच्चक्षुषा पश्यच्छ्रोत्रेण शृण्वन्मनसा ध्यायच्छिश्य एवाथैनत्माणः प्रविवेश तत्तत एव समु.
For Private And Personal