SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २ द्वितीयः खण्डः] कौषीतक्युपनिषत् । ११४-४ स्पष्टं बोधयिष्यामि न तु संदेहादिकं जनयिष्यामि । इत्यनेन प्रकारेण प्रतिज्ञामकरोदिति शेषः ॥ १॥ स होवाच ये वै केचास्माल्लोकात्मयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति । स चित्रः कृतप्रतिज्ञः । ह प्रसिद्ध उवाचोक्तवान् । प्रथमतो गुप्त स्थानं भेददार्शिनां कर्मिणामाह-ये वै केच ये केच त्रैवर्णिकाः प्रसिद्धा अग्निहोत्रादिकर्मानुष्टातारः । अस्मात्प्रत्यक्षाल्लोकादवलोकनयोग्यात्रैवर्णिकदेहात् । प्रयन्ति, अपसर्पन्ति म्रियन्त इत्यर्थः । चन्द्रमसमेव ते सर्वे गच्छन्ति ते विमुक्तदेहाः कर्मिणो निखिला धूमरात्रिकृष्णपक्षदक्षिणायनाकाशान्गत्वाऽनन्तरं कर्मफलभूतं स्वर्गापरपर्यायं चन्द्रमण्डलं गच्छन्ति न त्वादित्यादिकम् ॥ तेषां प्राणैः पूर्वपक्ष आप्यायते तानपरपक्षे न प्रजनयति । तेषां स्वर्गिणां कर्मिणां प्राणैरिन्द्रियैः प्राणापानादिसहितैः पूर्वपक्षे शुक्लपक्ष आप्यायत आप्यायनं गतो भवति चन्द्रमा राजभृत्यकरादिभिरिव राजा तान्कर्मिणः प्राणानपरपक्षे कृष्णपक्षे न प्रजनयति नोत्पादयति । अयमर्थः । क्षीणभृत्यश्चै(वित्त इ) व राज्ञः(जा) परिवारान्न(णां न) जनयति द्रव्यलाभ ए(मे)वं चन्द्रः क्षीणः स्वर्गिणां तृप्तिम् ॥ एतद्वै स्वर्गस्य लोकस्य द्वारं यश्चन्द्रमास्तं यः प्रत्याह तम तिसृजतेऽथ य एनं न प्रत्याह तमिह दृष्टिर्भूत्वा वर्षति एतदुक्तं चन्द्रमण्डलं वै प्रसिद्धममृतरूपं स्वर्गस्य लोकस्य स्वर्गाख्यस्य स्थानस्य द्वारं गृहस्येवान्तःप्रवेशमार्गः । एतच्छब्दार्थमाह-यः प्रसिद्धश्चन्द्रमा इन्दुः। संवृतं स्थानं विवक्षुराह-तं चन्द्रमसं दक्षिणमार्गाख्यं योऽधिकार्यमानित्वादिगुणः प्रत्याह निराचष्टेऽहमेतस्मिन्संततसंपाते न गमिष्यामीति तं निराकृतचन्द्रमसमतिसृजते चन्द्रमसमतीत्य विद्युदाद्यातिवाहिकेषु सृजत उत्पादयति । उपासनासंकल्पो ब्रह्मलोकं नयतीत्यर्थः । अथ पक्षान्तरे यः कर्मी वर्गाभिलाषवान् । एनं चन्द्रमसं न प्रत्याह न निराचष्टे गमिष्याम्यहं स्वर्गमिति संकल्पवानित्यर्थः । तं कामिनं स्वर्गनिवासम् । इहास्मिल्लोके रमणीयारमणीयचरणफलभूते वृष्टिभूत्वा कर्मफलोपभोगनियमोऽनुशयसहितो वर्षधाराभावं प्राप्य वर्षति मेघोदरेभ्यो नारधाराभिः सहानुशयिनं मुञ्चति ॥ स इह कीटो वा पतङ्गो वा शकुनिर्वा शार्दूलो वा सिंहो वा मत्स्यो वा परश्वा वा पुरुषो वाऽन्यो वैतेषु स्थानेषु प्रत्याजायते १ च. 'त्यस्येव । २ च. 'रिचारा' । ३ च. द्रव्याला' । ४ च. तृप्ति न जनयतीति । ननु स्वर्गकामो जुहुयादिति श्रूयते न चन्द्रमण्डलकाम इत्यत आह-ए। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy