________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
कैवल्योपनिषत् ।
१०५
मपि न केवलस्येत्यत आह- तमस आवरणविक्षेपशक्तिरूपाया अविद्यायाः । परस्ता
त्परतोऽविद्यासंबन्धशून्यमित्यर्थः ॥ ७ ॥
स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् ॥
स एव विष्णुः स प्राणः से कोलाग्निः स चन्द्रमाः ॥ ८ ॥ सेन्द्रः स इन्द्रः । छान्दसः संधिः ॥ ८ ॥
उमासहाय उपासनातः प्राप्यो निरविद्यो विद्यादशायां सर्वात्मेत्याह-स उक्तः । ब्रह्मा प्रथमशरीरी कार्यकरणरूपः । स उक्तः । शिव उमासहायः । सेन्द्रः स उक्तः । इन्द्रस्त्रिलोकीपतिः । स उक्तः । अक्षरो विनाशरहितः । परम उत्कृष्टः । स्वराडन्यानपेक्षत्वेन स्वेनैव स्वरूपेण राजते । स एवोक्त एव । विष्णुर्व्यापनशीलः शङ्खचक्रगदाधरः । स उक्तः । प्राणः प्राणादिपञ्चवृत्तिरूपः । स उक्तः । कालाग्निः कालरूपी वैश्वानरः । स उक्तः । चन्द्रमाः शशाङ्कः ॥ ८ ॥
स एव सर्व यद्भूतं यच्च भव्यं सनातनम् ॥
ज्ञात्वा तं मृत्युपत्येति नान्यः पन्था विमुक्तये ॥ ९ ॥
॥ ९ ॥
स एवेति । स एवोक्त एव । सर्वे निखिलम् । यत्प्रसिद्धम् । भूतमतीतम् । यच्च यदपि । भव्यं भावि । चकाराद्वर्तमानमपि । सनातनं चिरंतनम् । ज्ञात्वाऽहं ब्रह्मास्मीति साक्षात्कृत्य । तमुक्तमानन्दात्मानम् । मृत्युमविद्यां ससंस्काराम् । अत्येत्यतीत्य गच्छति । नान्य उक्तब्रह्मज्ञानव्यतिरिक्तः । पन्था मार्गः । विमुक्तये ब्रह्मज्ञानमृते मार्गान्तरं विमुक्त्यर्थं नास्तीति शेषः । पादत्रयाणां विश्वतैजसप्राज्ञानां विराइहिरण्यगर्भेश्वराणां वा स्वयंप्रकाशत्वेन लोचनं प्रकाशस्वरूपं त्रिलोचनम् । नीलं तमोऽज्ञानं कण्ठे कण्ठवच्चिदेकदेशेऽधिकव्याप्तत्वेन चैतन्यस्य वर्तते यस्य स नीलकण्ठस्तमिति व्याख्यानं यदा तदा विशदमविद्यारहितं विशोकं दुःखसंस्काररहितम् । उमासहायं ब्रह्मविद्यासहायम् । प्रशान्तं पुनरुत्थान संस्कारवर्जितमितिनिर्गुणपरत्वेन समग्रं वाक्यमवगन्तव्यम् । निर्गुणस्याप्युपलब्धत्वेन हृदयप्रदेशमध्यस्थत्वमविरुद्धम् । तथाच ध्यात्वा मनननिदिध्यासने कृत्वेत्येतदप्युपपन्नमेव ॥ ९ ॥ सर्वभूतस्थमात्मानं सर्वभूतानि चाऽऽत्मनि ॥
संपश्यन्ब्रह्म परमं याति नान्येन हेतुना ।। १० ।।
॥ १० ॥
सर्वभूतस्थमिति । सर्वभूतस्थं निखिलेषु स्थावरजङ्गमेषु तिष्ठतीति सर्वभूत
१ ख. ङ. स आत्मा परमेश्वरः ॥ ८ ॥ २ क. छ. ज. कालोऽग्निः ।
१४
For Private And Personal