________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1074 उपमितिभवप्रपञ्चा कथा / ग्टहे तत्राप्रतिष्ठाने निर्भिन्नो वज्रकण्टकैः / सागराणां त्रयस्त्रिंशल्लमन् कन्दुकलीलया // तदन्ते गुडिकादानाद्भवितव्यतया तया / पञ्चाक्षपशुसंस्थानमानीय शफरीकृतः // पुनर्नोतोऽप्रतिष्ठाने समानौतस्ततोऽप्यहम् / कृतश्च गुडिकादानाच्छार्दूलाकारधारकः // भूयः पापिष्ठवामायां नौतोऽहं तुर्यपाटके / ततोऽप्यानीय विहितो मार्जाराकारधारकः // तदेवंविधरूपाणि जनयन्या मुहुर्मुडः / दुःखसागरविस्तारं दर्शयन्या क्षणे क्षणे // तदसंव्यवहाराख्यं विहाय नगरं परम् / प्रायः ममस्तस्थानेषु भ्रमितोऽहं महेलया // युक्तः सपरिवारेण महामोहेन सुन्दरि / कुर्वाणो निजभार्याज्ञां क्व क्वाहं न विनाटितः // तथा परिग्रहेणाहं संज्ञया निजभार्यया / युक्रेन बहुमो भद्र योनौ योनौ विडम्बितः // यतः / ग्रहकोकिलिकासर्पमूषिकाकारधारकः / दृष्टो निधानमासाद्य तन्नाशे विकलो मृतः // एवं चानन्तकाल मे भ्रमतो गजगामिनी। घर्षणाघूर्णनन्यायात्प्रसन्ना भवितव्यता // अन्यच्च / For Private and Personal Use Only